________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
पवशादुत्कर्षापकर्षभाक् तत् तस्य कारणम् , यथा घटस्य मृत्पिण्डः, तथाहि-श्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहाऽपोहादि वाऽधिकतरं प्रवर्तते स ग्रन्थः स्फुटतरः प्रतिभाति न शेषः । तथा भेदभेदाद् भेदः, तथाहि-मतिज्ञानमष्टाविंशत्यादिभेदम् , श्रुतज्ञानं तु चतुर्दशादिभेदम् । तथा इन्द्रियविभागाद् भेदः, तत्प्रतिपादिका चेयं पूवोन्तर्गता गाथा
'सोइंदिओवलद्धी, होइ सुयं सेसयं तु मइनाणं ।।
vमुत्तूणं दव्वसुयं, अक्खरलंभो य सेसेसु ।। ( विशे० गा० ११७ ) तथा 'वल्कसमं मतिज्ञानं कारणत्वात् , "शुम्बसमं श्रतज्ञानं तत्कार्यत्वादित्यप्यनयोभदनिबन्धनम् । तथा इतश्च भेदः-मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरम् , तस्यानिदेश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वातः ईहादिज्ञानं तु साक्षरम् , तस्य परा. मशादिरूपतयाऽवश्यं वर्णाऽऽ रूपितत्वात ; श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दाथेपयालोचनस्यानुपपत्तेः । तथा इतथ भेदः-मूककल्यं मतिज्ञानम् , स्वमात्रप्रत्यायकत्वात् ; अमूककल्पं श्रुतज्ञानम् , स्त्र परप्रत्यायकत्वात् । तथा चामूनेव हेतून संगृहीतवान् भाष्यसुधाम्भोनिधिः
• "लक्षणभेया हेउफलभावओ भेयइंदियविभागा ।
वागावरम्यरमेया भेओ महसुयाणं ।। (विशे० गा० ६७) तथा कालविपर्ययस्वामित्वलाभसाधम्यान्मतिश्रुतज्ञानानन्तरमवधिज्ञानम् , तथाहि-अप्रतिपतितैक्यत्त्वाधारापेक्षयाऽवस्थितिका लोऽवधिज्ञानस्य पष्टिसागगेपमाणि । तथा यथैव मतिश्र - तज्ञाने मिथ्यात्वोदयतो विपर्ययतामासाइयतस्तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेः सतस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति । उक्तं च
__ आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ (प्रशम० पद्य २२७ ) इति ।
तथा य एव मतिश्रुतयोः स्वामी स एवावधिज्ञानस्यापि । तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसंभवस्ततो लाभसाधर्म्यम् । अवधिज्ञानानन्तरं च छमस्थविषयभावप्रत्यक्षत्वसाधान्मनःपर्यायज्ञानमुक्तम् , तथाहि-यथाऽवधिज्ञानं छमस्थस्य भवति तथा मनःपर्यायज्ञानमपि इति छद्मस्थसाधयम् । तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यायज्ञानमपि, तस्य मनःपुनलाऽऽलम्बनत्वाद् इति विषयसाधर्म्यम् । तथा यथाऽवधिज्ञानं क्षायोपशमिक भावे वर्तते तथा मनःपर्यायज्ञानमपि इति भावसाधर्म्यम् ।
१ श्रोत्रेन्द्रियोपलब्धिः भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्च शेषेषु ॥२ त्वमदशम् ।। ३ रज्जुसदृशम् ॥ ४ मिश्रितत्वात् ।। ५ लक्षणभेदाद् हेतुफलमावतो भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरभेदाभेदो पतिश्रुतयोः ।। ६०लो मतिश्रुतयोरिवावधि० ग०ङ ।।