________________
देवेन्द्रसूरिविरचितम्वोपज्ञटीकोपेतः
[गाथ! तथा यथाऽवधिज्ञानं प्रत्यक्षं तथा मनःपर्यायज्ञानमपि इति प्रत्यक्षत्वसाधर्म्यम् । उक्तं च
'कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो ।।
माणसमित्तो छ उमत्थविसयभावाइसाहम्मा ॥ (विशे० गा० ८७) तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, सर्वोत्तमत्वाद् अप्रमत्तयतिस्वामिसाधात् सर्वावसाने लाभाच । तथाहि-सर्वाण्यपि मतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि, केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं सर्वोत्तमम् , सर्वोत्तमत्वाच्चान्ते सर्वशिरःशेखरकल्पमुपन्यस्तम् । तथा यथा मनःपर्यवज्ञानमप्रमत्तयते रेवोत्पद्यते तथा केवलज्ञानमपि इत्यप्रमत्तयतिस्वामिसाधर्म्यम् । तथा यः सर्वाण्यपि ज्ञानानि समासादयितु योग्यः स नियमाद सर्वज्ञानावसाने केवलज्ञानमवाप्नोति, ततः सर्वान्ते केवलमुक्तम् । उक्तं च
__ अंते केवलमुत्तमजइसामित्तावसाणलाभाओ ॥ (धर्मसं० गा० ८५ ) इति ॥
व्याख्यातानि नामसंस्कारमात्रेण पश्चापि ज्ञानानि । अथामून्येव सविस्तरं व्याचिख्यासुः प्रथमं मतिज्ञानं प्रकटयन्नाह-"तत्थ मइनाणं" इत्यादि । 'तत्र' तेषु पञ्चसु ज्ञानेषु मतिज्ञानमष्टाविंशतिभेदं भवतीत्युत्तरगाथायां सम्बन्धः । इह किल द्वेधा मतिज्ञानम्-श्रुतनिश्रितमश्र - तनिश्रितं च । तत्र च यत् प्रायः श्रुताभ्यासमन्तरेणापि सहजविशिष्टक्षयोपशमवशादुत्पद्यते तद् अश्रुतनिश्रितमौत्पत्तिक्यादिवुद्धिचतुष्टयम् , यदाह श्रीदेवढिवाचकः
से किं तं मइनाणं ? मइनाणं दुविहं पन्नत्तं, तं जहा-सुयनिस्सियं च अस्सुयनिस्सियं च । से किं तं अस्सुयनिस्सियं ? अस्सुयनिस्सियं चउव्विहं पन्नत्तं, तं जहा
उप्पत्तिया वेणइया, कम्मिया परिणामिया । ___ बुद्धी चउन्विहा वुत्ता, पंचमा नोवलब्भई ।। ( नन्दी पत्र १४४-१)
तत्रौत्पत्तिकी बुद्धिर्यथा रोहकस्य । वैनयिकी बुद्धिः पददर्शनात्करिण्यादिज्ञायकच्छात्रस्येव । कर्मजा कर्षकस्येव । पारिणामिकी श्रीवज्रस्वामिन इव । यत्तु पूर्व श्रुतपरिकर्मितमते~वहारकाले पुनरश्रुतानुसारितया समुत्पद्यते तत् श्रुतनिश्रितम् । यदुक्तं श्रीविशेषावश्यके--
• पुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं ।
तं निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं ॥ ( विशे० गा० १६६ ) १ कालविपर्ययस्वामित्वलामसाधर्म्यतोऽवधिः ततः । मानसं (मनःपर्याय) इतः छदास्थविषयमावादिसाधात् ॥ २०कल्पे उप० क० घ० उ० ॥ ३ अन्ते केवलमुत्तमयतिस्वामित्वावसानलामात् ॥ ४ अथ किं तद् मतिज्ञानम् ?, मतिज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितं चाश्रुतनिश्रितं च । अथ कि तदश्रुतनिश्रितम् ? अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तम् , तद्यथा-औत्पत्तिकी वैनयिकी, कर्मजा पारिणामिकी । बुद्धिश्चतुर्विधा प्रोक्ता, पञ्चमी नोपलभ्यते ॥ ५०पारि० ख० ग० ॥ ६ पूर्व श्रुतपरिकर्मितमते यत् साम्प्रतं श्रुतातीतं । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ।।