________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
इत्यादिवचनप्रामाण्यात्, ततः स्वामिसाधर्म्यम् । तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि तत्र प्रवाहापेक्षयाऽतीतानागतवर्तमानरूपः सर्वकालः, अप्रतिपतितैकजीवापेक्षया पट्पष्टिसागरोपमाणि समधिकानि, उक्तं च
१०
'दो वारे विजयाइसु, गयस्स तिन्नच्चुए अहव ताई ।
अइरेगं नरभवियं, नाणाजीवाण सव्वद्धा ।। (विशे० गा० २७६२)
[गाथा
इति कालसाधर्म्यम् । यथा चेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाधर्म्यम् । तथा यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि इति विषयसाधर्म्यम् । यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि इति परोक्षत्वसाधर्म्यम् । तत इत्थं स्वाम्यादिसाधर्म्यादेिते मतिश्रुते नियमादेकत्र वक्तव्ये, ते चावध्यादिज्ञानेभ्यः प्रागेव तद्भाव एवावध्यादिसद्भावात् । उक्तं च
'जं सामिकालकारण विसयपरोक्खत्तणेहि तुल्लाई ।
तभावे साणि य, तेणाऽऽईए मइसुयाई || ( विशे० गा० ८५ )
ननु भवतामेकत्र मतिश्रुते, प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्वं मतिः पश्चात् श्रुतमित्येव तत् कथम् ? उच्यते - मतिपूर्वत्वात् श्रुतज्ञानस्य, तथाहि -सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतम् । यदाह निविडजडिमसम्भारतिर - स्कारतरणिः श्रीजिन भद्रगणिक्षमाश्रमणः -
-
महपुच्वं सुयमुत्तं, न मई सुयपुब्विया विसेसोऽयं ।
पुच्वं पालणपूरणभावाओ जं मई तस्स || ( विशे० गा० १०५ ) नन्द्यध्ययन चूर्णावप्युक्तम्-
४ तेसु वि य मइपुब्वयं सुयं ति किच्चा पुत्र्वं महनाणं कयं तप्पट्टओ सुयं ति ।। (पत्र ११ ) आह-यदि स्वामित्वादिभिरनयोरभेदस्तर्हि द्वयोरप्येकत्वमस्तु, भेदहेत्वभावाद् अभेदहेतूनां चाभिहितत्वात् तदयुक्तम्, भेदहेत्वभावस्यासिद्धत्वात् । तथाहि - स्वाम्यादिभिरभेदे सत्यपि लक्षणभेदादनयोर्भेदः, तथाहि - मन्यते योग्योऽर्थोऽनयेति मतिः, श्रवणं श्रुतमित्यादि । तथा हेतुफलभावाद् भेदः, तथाहि - मतिज्ञानं श्रुतस्य कारणम्, श्रुतं तु कार्यम् । यच्च यदुत्कर्षापक
१ द्वौ वारौ विजयादिषु गतस्य त्रीन् ( वारान् ) अच्युतेऽथवा तानि ( सागराणि ६६) । अतिरेकं नरभविकं नानाजीवानां सर्वाद्वा ॥ २ यत् स्वामिकालकारणविषयपरोक्षत्वैस्तुल्ये । तद्भावे शेषाणि च तेनाऽऽदौ मतिश्रुते || ३ मतिपूर्वं श्रुतमुक्तं न मतिः श्रुतपूर्विका विशेषोऽयम् । पूर्वं पालनपूरणभावात् यन्मतिस्तस्य ( श्रुतस्य ) ॥ ४ तयोरपि च मतिपूर्वकं श्रुतमिति कृत्वा पूर्व मतिज्ञानं कृतं तत्पृष्ठतः श्रुतमिति ॥