________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
शयति, स च तथा प्रकाशयन् मतिज्ञानमित्यादिलक्षणं तत्तत्क्षयोपशमानुरूपमभिधानमुद्वहति; ततो यथा सकलघनपटलकटकुटयाद्यावरणापगमे स तथाविधः प्रकाशः सहस्रभानोरस्पष्टरूपो न भवति किन्तु सर्वात्मना स्फुटरूपोऽन्य एव, तथेहापि सकलकेवलज्ञानावरण मतिज्ञानाद्याचरणविलयेन तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना यथावस्थितं वस्तुपरिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः ।
उक्तं च श्री पूज्यै:
"कटविवरागयकिरणा, मेहंतरियस्स जह दिसस्स | ते कडमेहावगमे, न हुंति जह तह इमाई पि ॥ अन्यैरपि न्यगादि
४
,
-
1
मलविद्धमव्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ।।
अन्ये पुनराहु: - सन्त्येव मतिज्ञानादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि तदानीं न विवक्ष्यन्ते, यथा सूर्योदये नक्षत्रादीनि । उक्तं च
'अन्ने आभिणिबोहियणाणाईणि वि जिणस्स विज्जति । अफलाणि य सूरुदए, जब नक्खत्तमाईणि ||
,
शुद्धं वा केवलम्, तदावरणमलकलङ्कपङ्कापगमात् । सकलं वा केवलम्, तत्प्रथमतयैव निःशेषतदावरणविगमतः संपूर्णोत्पत्तेः । असाधारणं वा केवलम् अनन्यसदृशत्वात् । अनन्तं वा केवलम् ज्ञेयानन्तत्वात् अपर्यवसितानन्तकालावस्थायित्वाद्वा । निर्व्याघातं वा केवलम् लोकेऽलोके वा क्वापि व्याघाताभावात् । केवलं च तद् ज्ञानं च केवलज्ञानं यथावस्थितसमस्तभूतभवद्भाविभावस्वभावावभासि ज्ञानमिति भावना |
यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः
"
आह- नन्वेतेषां पञ्चानां ज्ञानानामित्थं क्रमोपन्यासे किं कारणम् ? उच्यते - इह मतिश्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः स्वामिकालकारणविषय परोक्षत्वसाधर्म्यात् । तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य य एव श्रुतज्ञानस्य स्वामी स एव मतिज्ञानस्यापि " जत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं" ( नन्दी पत्र १४० - १ )
१ कविवरागतकिरणाः, मेघान्तरितस्य यथा दिनेशस्य । ते कटमेघापगमे, न भवन्ति यथा तथेमान्यपि । २ अन्ये आभिनिबोधिकज्ञानादीन्यपि जिनस्य विद्यन्ते । अफलानि च सूर्योदये यथैव नक्ष त्रादीनि । ३ यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानम् ॥
२