________________
देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपेतः
[ गाथा
शेषः, एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रिया समर्थमित्यादिरूपतया प्रधानी - कृतत्रिकालसाधारणसमान परिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् । तथाऽवधानमवधिः - इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अत एवेदं प्रत्यक्षज्ञानम् । यदुक्तं नन्द्यध्ययने— तंजहा - ओहिनाणपच्चक्खं मणपज्जवनाणपच्चक्खं केव
'नोइंदियपच्चक्खं तिविहं पन्नत्तं, नाणपच्चक्खं (नन्दी पत्र ७६ - २ ) ।
अथवा अवशब्दोऽधः शब्दार्थः, अव - अधोऽधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः- मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्च तद् ज्ञानं चावधिज्ञानम् । तथा परि:- सर्वतोभावे, अवनम् अवः, "तुदादिभ्योऽन्कौ” इत्यधिकारेऽकितौ चेत्यनेन औणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवो मनः पर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवञ्च स ज्ञानं च मनःपर्यवज्ञानम् । यद्वा मनःपर्यायज्ञानम्, तत्र संज्ञिभिजीवः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तुचिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्व्यमानानि मनांसीत्युच्यन्ते तेषां मनसां पर्याया चिन्तनानुगताः परिणामा मनःपर्यायाः तेषु तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानम् ; यद्वा आत्मभिर्वस्तु चिन्तने व्यापारितानि मनांसि पर्येति- अवगच्छतीति मनःपर्यायम्, “कर्मणोऽण" (सि० ५-१-७२ ) इति अण्प्रत्ययः, मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् । तथा केवलम् - एकं मत्यादिज्ञानरहितत्वात् "" नट्टम्मि उ छाउमन्थिए नाणे " ( आव० नि० गा० ५३९) इति वचनप्रामाण्यात् ।
/ आह- यदि मत्यादीनि ज्ञानानि स्वस्वावरणक्षयोपशमभावेऽपि प्रादुःपन्ति ततो निःशेषतः स्वस्वावरणक्षये सुतरां भवेयुश्चारित्र परिणामवत् तत् कथं तेषां तदानीमभावः ? आह च" आवरण देसविगमे, जाई विज्जंति महसुयाईणि ।
,
आवरणसव्वविगमे, कह ताइँ न हुंति जीवस्स १ || इति ।
उच्यते-इह यथा सहस्रभानोरतिसमुन्नतघनाघनघनपटलान्तरितस्यापान्तरालावस्थितकटकुट्याद्यावरणविवरप्रविष्ट[:] प्रकाशो घटपटादीन् प्रकाशयति तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्यापान्तर|लमतिज्ञानावरणादिक्षयोपशमरूपविवरविनिर्गतः प्रकाशो जीवादीन् प्रका
१ नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तम्, तद्यथा - अवधिज्ञानप्रत्यक्षं मनः पर्यवज्ञानप्रत्यक्षं केवलज्ञान प्रत्यक्षम् । २ नष्टे तु छाद्मस्थिके ज्ञाने || ३ आवरणदेशविगमे, यानि विद्यन्ते मतिश्रुतादीनि । आवरणसर्व (सर्वावरण) विगमे, कथं तानि न भवन्ति जीवस्य ? ||