________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
न्दमानन्दसन्दोहम्, तत एतदर्थप्रतिपत्त्यर्थं दर्शनावरणानन्तरं वेदनीयग्रहणम् | वेदनीयं च सुखदुःखे जनयति, अभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयहेतुक, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणम् । मोहनीयमूढाश्च जन्तवो बह्वारम्भपरिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायुग्रहणम् । नरकाद्यायुष्कोदये चावश्यं नरकगत्यादीनि नामान्युदयमायान्ति तत आयुरनन्तरं नामग्रहणम् । नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्र कर्मविपाकोदयेन भवितव्यम्, अतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदये चोच्चैः कुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् ; नीचैः कुलोत्पन्नस्य तु दानलाभान्तरायाद्युदयः, नीचजातीनां तथादर्शनात् तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणमिति || ३ || अथ ‘यथोद्देशं निर्देश:' इति न्यायात् प्रथमं तावत् पञ्चधा ज्ञानावरणं व्याचिख्यासुराह
४]
महसुयओही मणकेवलाणि नाणाणि तत्थ मइनाणं । वंजणवग्गह चउहा, मणनघणविनिंदियचउक्का || ४ ||
6!
इह ज्ञानशब्दस्य प्रत्येकं सम्बन्धाद् मतिज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, 'मण त्ति' यदैकदेशे पदसमुदायोपचारात् मनः पर्यवज्ञानं मनःपर्यायज्ञानं वा, केवलज्ञानम् । तत्र “बुधिं मनिच् ज्ञाने " मननं मतिः, यद्वा मन्यते - इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यते ऽनयेति मतिः- योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्व सा ज्ञानं च मतिज्ञानम् । इदं चागमे आभिनिवोधिकज्ञानमुच्यते ।
यदाह भगवान् देवर्डिक्षमाश्रमण:
'नाणं पंचविहं पन्नत्तं तं जहा - आभिणिवोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं | (नन्दी पत्र ६५ - १ ) ।
ततश्चा
तत्र चायमाभिनिवोधिकज्ञानशब्दार्थ : - अभि- इत्याभिमुख्ये, नि- इति नैयत्ये, भिमुखः चतुयोग्यदेशावस्थानापेक्षी नियतः - इन्द्रियमनः समाश्रित्य स्वस्वविपयापेक्षी बोधनं बोधोऽभिनिबोधः, स एवाऽऽभिनिवोधिकर, विनयादेराकृतिगणत्वादिकण्प्रत्ययः, अभिनिबुध्यत इत्यभिनिबोध इति कर्तरि लिहादित्वादच् वा यद्वाऽभिनिन्रध्यते आत्मना स इत्यभिनिबोध इति कर्मणि घञ् स एवाऽऽभिनिबोधिकमिति तथैव आभिनिबोधिकं च तद् ज्ञानं चाऽऽभिनिवोधिकज्ञानम् | तथा श्रवणं श्रुतम् - अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिवि
१ ज्ञानं पञ्चविधं प्रज्ञप्तम्,
तद्यथा - आभिनिबोधकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानम् ॥
-