________________
देवेन्द्रसूरिविरचितस्वोपज्ञटोकोपेतः
[ गाथ! उदयं नायात्येव इत्युभयथाऽपि व्यभिचारः आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनात् , जन्मान्तरसङ्क्रान्तौ तु स्वविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात् तस्य चायुष्येव सद्भावात् तस्यैवैतन्नाम । अथवा आयान्त्युपभोगाय तस्मिन्नुदिते सति तद्भवप्रायोग्याणि सर्वाण्यपि शेषकर्माणीत्यायुः । तथा नामयति-गतिजातिप्रभृतिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा 'गुङ् शब्दे' गूयते-शब्धत उच्चावचैः शब्दैरात्मा यस्मात् तद् गोत्रम् । ततो ज्ञानदर्शनावरणं च वेद्यं च मोहश्चायुश्च नाम च गोत्रं च'ज्ञानदर्शनावरणवेद्यमोहायुनामगोत्राणि । तथा विशेषेण हन्यन्ते-दानादिलब्धयो विनाश्यन्तेऽनेनेति ('स्थास्नायुधिव्याधिहनिभ्यः कः" इति कप्रत्यये 'विनम्' अन्तरायम् । 'चः' समुच्चये ।) "पणनवदुअट्ठवीस" श्यादि । अत्र द्वन्द्व गर्भो बहुव्रीहिसमासः। भावार्थः पुनरयम् पञ्चविधं ज्ञानावरणम् , नवविधं दर्शनावरणम् , द्विविधं वेद्यम् , अष्टाविंशतिविधो मोहः, चतुर्विधमायुः, त्रिशतविधं नाम, त्रिभिरधिकं शतं त्रिशतं-व्युत्तरशतविधमित्यर्थः, द्विविधं गोत्रम् , पञ्चविधं विघ्नमिति ।
अत्राह-नन्वित्थं ज्ञानावरणाद्यपन्यासे किञ्चिदस्ति प्रयोजनम् ? उत यथाकथञ्चिदेष प्रवृत्तः ? इति, अस्तीति बमः । किं तद् ? इति चेद् उच्यते -इह ज्ञानं दर्शनं च जीवस्य स्वतत्त्वभूतम् , तदभावे जीवत्वस्यैवायोगात् , चेतनालक्षणो हि जीवः, ततः स कथं ज्ञानदशनाभावे भवेत् ?; ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानम् , तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः । अपि च–सर्वा अपि लब्धयो जीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, न दर्शनोपयोगोपयुक्तस्यः 'सव्वाओ लद्धीओ सागारोवओगोवउत्तम्स, नो अणागारोवओगोवउत्तस्स" इति वचनप्रामाण्यात् । अन्यच्च यस्मिन समये सकलकर्मविनिमुक्तो जीवः सञ्जायते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव, न दर्शनोपयोगोपयुक्तः, दर्शनोपयोगस्य द्वितीयसमये भावात् , ततो ज्ञानं प्रधानम् , तदावारकं च ज्ञानावरणं कर्म, ततस्तत् प्रथममुस्तम् । तदनन्तरं च दर्शनावरणम् , ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगेऽवस्थानात् । एते च ज्ञानदर्शनावरणे स्वविपाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदनिमित्त भवतः । तथाहिज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् मुश्मसूक्ष्मतरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञयाऽभिजानानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयतेः तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसन्दोहं वचनगोचरातिक्रान्तम् , दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद् वस्तुनिकुरम्यं सम्यगवलोकमानो वेदयतेऽम
१ सर्वा लब्धयः साकारोपयोगोपयुक्तस्य नोऽनाकारोपयोगोपयुक्तस्य ।।