________________
1
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
कस्यचिद् ज्ञानाच्छादनस्वभावा प्रकृतिः, अपरस्य दर्शनावरणरूपा, अन्यस्याऽऽह्लादादिप्रदानलक्षणा, कस्यचित् सम्यग्दर्शनादिविघातजननस्वभावेत्यादि । स्थितिश्च तस्यैव कस्यचित् त्रिंशत्सागरोपमकोटीकोटीरूपा, अपरस्य तु सप्ततिसागरोपमकोटाकोटिलक्षणेत्यादि । रसस्त्वनुभागशब्दवाच्यस्तस्यैवैकस्थानद्विस्थानत्रिस्थानादिरूपः | प्रदेशा अल्पबहुबहुतरबहुतमादिरूपा इति । पुनः किंविशिष्टं तत् कर्म भवति ? इत्याह - " मूलपगड उत्तरपगईअडवन्नसयभेयं" ति मूलप्रकृतयः सामान्यरूपा : 'अष्टौ ' अष्टसङ्ख्या यत्र तन्मूलप्रकृत्यष्ट, उत्तरप्रकृतीनां - मूलप्रकृतिविशेषरूपाणामष्टपञ्चाशच्छतभेदा यस्य तदुत्तरप्रकृत्यष्टपञ्चाशच्छतभेदमिति ||२||
५
अधुना मूलप्रकृतिभेदतस्तस्यैवाष्टविधत्वमुत्तरप्रकृतिभेदतोऽष्टपञ्चाशच्छतभेदत्वं च प्रदर्शयन् स्वनामग्राहमष्टौ मूलभेदान् एकैकस्य च भेदस्य यस्य यावन्त उत्तरभेदास्तांश्च वक्तुमाह-इह नाणदंसणावरणवेय मोहाऽऽउनामगोयाणि । विग्धं च पणनवदुअट्ठावीसचउतिसग्रदुषणविहं || ३ ||
'इ' प्रवचने कर्मोच्यते इति शेषः । " नाणदंसणावरण" त्ति ज्ञायते - परिच्छिद्यते वस्त्वनेति ज्ञानम्, ज्ञातिर्वा ज्ञानम्, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । तथा दृश्यते'ऽनेनेति दर्शनम्, दृष्टिर्वा दर्शनम्, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः | आवियते - आच्छाद्यतेऽनेनेत्यावरणम्, यद्वा आवृणोति - आच्छादयति - " रम्यादिभ्यः कर्तरि" ( सि० ५ -३ - १२६ ) अनटि प्रत्यये / आवरणं - मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्म वर्गणान्तःपाती विशिष्टपुद्गलसमूहः । ततो ज्ञानं च दर्शनं च ज्ञानदर्शने तयोरावरणं ज्ञानदर्शनावरणं ज्ञानावरणं दर्शनावरणं चेत्यर्थः । तथा वेद्यते - सुखदुःखरूपतयानुभूयते यत् तद् वेद्यम्, "य एच्चातः " ( सि० ५-१-२८) इति यप्रत्यये वेदनीयम् । यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिशब्दवद् वेद्यशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेद्यमित्युच्यते न शेपम् । तथा मोहयति - 'जानानमपि प्राणिनं सदसद्विवेक विकलं करोतीति मोहः, लिहादित्वादच्प्रत्ययः, मोहनीयमित्यर्थः । तथा एति - गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति-आगच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादि दुर्गतेर्निर्गन्तुमनसोऽपि जन्तोरित्यायुः, उभयत्रापि (इणो णित् ९९८) औणादिको गुस्प्रत्ययः, यद्वा आयाति-भवाद्भवान्तरं सङ्क्रामतां जन्तूनां निश्चयेनोदय मागच्छति "पृषोदरादयः" (सि० ३-२-१५५ ) इत्यायु:शब्दसिद्धिः । यद्यपि च सर्वं कर्म उदयमायाति तथाप्यस्त्यायुषो विशेषः, यतः शेषं कर्म बद्धं सत् किञ्चित्तस्मिन्नेव भवे उदयमायाति किञ्चित्तु प्रदेशोदय भुक्तं जन्मान्तरेऽपि स्वविपाकत
१० ऽनेनेति दृष्टि० क० ख० ग० घ० । २ ज्ञानिनमपि ग० ।। ३०दुक्किर्निष्क्रमितुम० ख० ।