________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपैतः
[ गाथा 'जह' इह य कंचणोवलसंयोगोऽणाइसंतइगओ वि ।
वुच्छिज्जइ सोवायं, तह जोगो जीवकम्माणं ।। (विशे० गा० १८१६) इत्यलं विस्तरेण ।।१।। अथ कतिभेदं कर्म ? इत्याशङ्कयाह--
पयइठिहरसपएसा, तं चउहा मोयगस्स दिटुंता ।
मूलपगइह उत्तरपगईअउवनसयभयं ॥२॥ " तत् कर्म पूर्वव्यावर्णितशब्दार्थ 'चतुर्धा' चतुष्प्रकारं चतुर्भेदं भवतीति शेषः । कथम् ? इत्याह-"पयइठिइरसपएस" ति, इह “गम्ययपः कमांधारे" (सिद्धहेम० २-२-७४) इति पञ्चमी, यथा प्रासादात् प्रेक्षत इति । ततश्च प्रकृतिस्थितिरसप्रदेशानाश्रित्य, प्रकृतिबन्धस्थितिबन्धरसवन्धप्रदेशबन्धतयेत्यर्थः । तत्र स्थित्यनुभागप्रदेशबन्धानां यः समुदायः स प्रकृतिवन्धः, अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः, कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाति वा यो रसः सोऽनुभागवन्धो रसबन्धः, इत्यर्थः, कर्मपुद्गलानामेव यद् ग्रहणं स्थितिरसनिरपेक्षदलिकसङ्ख्याप्राधान्येनैव करोति स प्रदेशबन्धः । उक्तं च--
'ठिइबंधु दलस्स ठिई, पएसबंधो पएसगहणं जं ।
ताण रसो अणुभागो, तस्समुदाओ पगइबंधो ।। ( पञ्चसं० गा० ४३१) अन्यत्राप्युक्तम्-- ४ प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् ।
अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः ॥ इदं च प्रकृतिस्थितिरसप्रदेशानां स्वरूपं 'मोदकस्य कणिक्कादिमयलड्डुकस्य 'दृष्टान्तात्' दृष्टान्तेन भावनीयम् । दृष्टान्तादित्यत्र तृतीयार्थे पश्चमी । यदाह पाणिनिः स्वप्राकृतलक्षणे"व्यत्ययोऽप्यासाम्" इति । यथा वातविनाशिद्रव्यनिप्पन्नो मोदकः प्रकृत्या वातमुपशमयति, पित्तोपशमकद्रव्यनिवृत्तः पित्तम् , कफापहारिद्रव्यसमुद्भूतः कफमित्येवंस्वभावा प्रकृतिः । स्थितिस्तु तस्यैव कस्यचिदिनमेकम् , अपरस्य तु दिनद्वयम् , एवं यावत् कस्यचिन्मासादिकमपि कालं भवति ततः परं विनाशादिति । रसः पुनः स्निग्धमधुरादिरूपस्तस्यैव कस्यचिदेकगुणः, अपरस्य द्विगुणः, अन्यस्य त्रिगुण इत्यादिकः । प्रदेशाश्व कणिकादिरूपास्तस्यैव कस्यचिदेकप्रसृतिप्रमाणाः, अन्यस्य तु प्रसृतिद्वयप्रमाणाः, यावदपरस्य सेतिकादिप्रमाणाः । एवं कर्मणोऽपि
१ यथेह च काञ्चनोपलसंयोगोऽनादिसन्ततिगतोऽपि । व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः ।। २ ह व इह ख० ॥३ स्थितिबन्धो दलस्य स्थितिः, प्रदेशबन्धः प्रदेशग्रहणं यत् । तेषां ( कर्म पुगलानां) रसोऽनुभागस्तत्समुदायः प्रकृतिबन्धः॥ ४०बंध ग०॥