________________
Pand
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
अन्यत्राप्युक्तम्
आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् ।
नरादिरूपं तचित्रमदृष्टं कर्मसंज्ञितम् ॥ पौराणिका अपि कर्मसिद्धि प्रतिपद्यन्ते । तथा च ते प्राहुः
यथा यथा पूर्व कृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥
यत्तत्पुराकृतं कमें, न स्मरन्तीह मानवाः । तदिदं पाण्डवज्येष्ठ !, दैवमित्यभिधीयते ॥ मुदितान्यपि मित्राणि, सुक्रुद्धाश्चैव शत्रवः ।
न हीमे तत् करिष्यन्ति, यन्न पूर्व कृतं त्वया ॥ बौडा अप्याहुः
इत एकनवतो कल्पे, शक्त्या में पुरुषो हतः ।
तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥ तदपि च कर्म पुगलस्वरूप प्रतिपत्तव्यम् , नामृतम्: अमृतत्वे हि कर्मणः सकाशादात्मनामनुग्रहोपघातासम्भवात् , आकाशादिवत् ॥ यदाह
'अन्ने उ अमुत्तं चिय, कम्म मन्नंति वासणारूवं । तं तु न जुज्जइ तत्तो, उबघायाणुग्गहाभावा ॥
नागास उवघायं, अणुग्गहं वा वि कुणइ सत्ताणं ॥ इत्यादि । तञ्च कर्म प्रवाहतोऽनादि, अणाइयं तं पवाहेण" इति वचनात् । यदि प्रवाहापेक्षयाऽपि सादि स्यात् तदा जीवानां पूर्व कर्मवियुक्तत्वमासीत् पश्चादकर्मकस्य जीवस्य कर्मणा सह संयोगः सञ्जातः; एवं सति मुक्तानामपि कर्मयोगः स्यात् , अकर्मकत्वाविशेषात , ततश्च मुक्ता अमुक्ताः, स्युः, न चेदमिष्टम् , तस्मादनादिर्जीवस्य कर्मणा सह संयोगः । नन्वनादि
योगे कथं वियोगो जीवस्य कर्मणा सह ? उच्यते-अनादिसंयोगेऽपि वियोगो दृष्टः काञ्चनोपलवत् । तथाहि-काञ्चनोपलानां यद्यप्यनादिसंयोगस्तथापि तथाविधसामग्रीसद्भावे धमनादिना किट्टिवियोगो दृष्ट; एवं जीवस्यापि ज्ञानदर्शनचारित्रध्यानानलादिनाऽनादिनाऽनादिकमणा सह वियोगः सिद्धो भवति । यदाह भगवान भाष्यसुधाम्भानिधिः
१ अन्ये तु अमूर्तमेव कर्म मन्यन्ते वासनारूपम । तत् तु न युज्यते तत उपघातानुग्रहाभावात् ।। नाकाशमुपघातमनुग्रह वाऽपि कुरुते सत्त्वानाम् ॥२ अनादिकं तत् प्रवाहेण ॥