________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा चोपायोपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणो वा स्वयमभ्यूह्य इति । अथ 'कर्मविपाकं वक्ष्ये' इत्युक्तं तत्र कर्मशब्दं व्युत्पादयन्नाह-'क्रियते' विधीयतेऽञ्जनचूर्णपूर्णसमुद्गक वद् निरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन वद्ययापिण्डवद्वा कर्मवर्गणाद्रव्यमात्मसम्बद्धं 'येन' कारणेन 'ततः' तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः । केन क्रियते ? इत्याह-'जीवेन' जन्तुना, तत्र जीवति-इन्द्रियपञ्चकमनोवाकायबलत्रयोच्छ्वासनिःश्वामाऽऽयुर्लक्षणान दश प्राणान् यथायोगं धारयतीति जीवः । क इत्थम्भूतः ? इति चेद् उच्यतेयो मिथ्यात्वादिकलुपितरूपतया सातादिवेदनीयादिकर्मणामभिनिवर्तकः, तत्फलस्य च विशिटसातादेरुपभोक्ता, नरकादिभवेषु च यथाकर्मविपाकोदयं संसा, सम्यग्दर्शनज्ञानचारित्रासपत्नरत्नत्रयाभ्यासप्रकर्षवशाच निःशेषकर्मांशापगमतः परिनिर्वाता स जीवः सत्त्वः प्राणी आत्मेत्यादि पर्यायः । उक्तं च
यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च ।
संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ इति । कैः कृत्वा जीवेन क्रियते ? इत्याह–'हेतुभिः' मिथ्यात्वाविरतिकपाययोगलक्षणेश्चतुर्भिः सामान्यरूपैः,
"पडिणीयत्तण निन्हव, पओस उबघाय अंतराएण ।
अच्चासायणयाए, आवरणदुर्ग जिओ जयइ ॥" इत्यादिभिर्विशेष प्रकारैरिहैव (गा० ५३) वक्ष्यमाणैः । तदयमत्र' तात्पर्यार्थः-क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति । कथमेतत्सिद्धिः ? इति चेद् उच्यते-इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं श्मापतिद्रमकमनीषिमन्दमहर्द्धिदरिंद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यम् , मा प्रापत् सदा भावाभावदोषप्रसङ्गः, "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्" । सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेव चास्माकं कर्मेति मतमिति तत्सिद्धिः। यदबोचाम श्रीदिनकृत्यटीकायां जीवस्थापनाधिकार एनमेवार्थम्
क्ष्माभृद्रङ्ककयोर्मनीपिजडयोः सद्रूपनीरूपयोः, __ श्रीमदुर्गतयोर्वलावलवतोनीरोगरोगार्त्तयोः । सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, __यत् तत् कर्मनिवन्धनं तदपि नो जीवं विना युक्तिमत् ।।
१ पर्यायाः क० ख० घ० । २०कारैश्चे है• ग०३ चेद् इहा० ख० ग० ।