________________
१६-२२ ]
चन्द्रषिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
१६७
वेदेन युगलेन वा अवश्यं मुहूर्तादारतः परावर्तितव्यम् ( पत्र २१७ ) इति । तत उत्कर्षतः चतुष्कोदयादयः सर्वेऽप्यान्तमौहूर्तिकाः । द्विकोदयैककोदयाश्च आन्तमहूर्तिकाः सुप्रतीता एव । तथा यदा विवक्षिते उदये भङ्गे वा एकं समयं वर्तित्वा द्वितीये समये गुणस्थानान्तरं 'गच्छति तदा अवश्यं बन्धस्थानभेदाद् गुणस्थानभेदात् स्वरूपतो वा भिन्नमुदयान्तरं वा भङ्गान्तरं वा यातीति सर्वेप्युदया भङ्गाश्च जघन्यत एकसामयिकाः ।। २० ।। तदेवं बन्धस्थानानामुदयस्थानैः सह परस्परसंवेध उक्तः । सम्प्रति सत्तास्थानैः सह तमभिधित्सुराह—
।
।। २१ ।।
तिन्नेव य बावीसे, इगवीसे अट्टवीस सत्तर से छ च्चेव तेरनवबंध गेसु पंचेव ठाणा पंचविच' विहेसु छ छक्क सेसेसु जाण पत्तं यं पत्तेय, चत्तारि य बंधवोच्
पंचेव ।
9
।। २२ ।।
'द्वाविंशतौ' द्वाविंशतिबन्धे त्रीणि सत्तास्थानानि, तद्यथा - अष्टाविंशतिः सप्तविंशतिः पविशतिश्च । तथाहिं – द्वाविंशतिबन्धो मिथ्यादृष्टेः, मिथ्यादृष्टेश्वत्वायु' दयस्थानानि, तद्यथा - सप्त अष्टौ नत्र दश । तत्र सप्तोदयेऽष्टाविंशतिरेकं सत्तास्थानम्, यतः सप्तोदयोऽनन्तानुबन्ध्युदयाभावे भवति, अनन्तानुबन्ध्युदयरहितश्च येन पूर्वं सम्यग्दृष्टिना सता अनन्तानुबन्धिन उद्वलिताः, ततः कालान्तरेण परिणामवशतो मिथ्यात्वं गतेन भूयोऽपि मिथ्यात्वप्रत्ययेन तेऽनन्तानुबन्धिनो बन्दूमारभ्यन्ते स एव मिथ्यादृष्टिर्वन्धावलिकामात्रं कालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते नान्यः, स चाष्टाविंशतिसत्कर्मा इति अष्टाविंशतिरेवैकं सप्तोदये सत्तास्थानम् । अष्टोदये त्रीण्यपि सत्तास्थानानि यनोऽष्टोदयो द्विधा - अनन्तानुबन्ध्युदयरहितोऽनन्तानुबन्ध्युदयसहितश्च । तत्र योऽनन्ता - नुबन्ध्युदयरहितोऽष्टोदयस्तत्र प्रागुक्तयुक्तेरष्टाविंशतिरेव सत्तास्थानम् । अनन्तानुबन्ध्युदयसहिते तु त्रीण्यपि सत्तास्थानानि ---तत्र यावद् नाद्यापि सम्यक्त्वमुद्वलयति तावदष्टाविंशतिः, सम्यक्त्वे उद्वलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विशतिः । एवं नवोदयेऽप्यनन्तानुबन्ध्युदयरहितेऽष्टाविंशतिरेव, अनन्तानुबन्ध्युदयसहिते तु त्रीण्यपि । दशोदयस्त्वनन्तानुबन्ध्युदयसहित एव भवति, ततस्तत्रापि त्रीणि सत्तास्थानानि भावनीयानि ।
“इगवीसे अडवीम" त्ति 'एकत्रिंशतौ' एकविंशतिबन्धेऽष्टाविंशतिरेकं सत्तास्थानम् । एकविंशतिबन्धो हि सासादनसम्यग्दृष्टेर्भवति, सासादनत्वं च जीवस्योपशमिकसम्यक्त्वात् प्रच्यवमानस्योपजायते, सम्यक्त्वगुणेन च मिथ्यात्वं त्रिधा कृतम्, तद्यथा - सम्यक्त्वं मिश्र मिथ्यात्वं
१ सं छा० गच्छन्ति ।। २ सं० १ म० यान्तीति ॥ ३ छा० मुद्रि० ० उत्रिहेसुः ॥