________________
१९८ ) मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
गाथा च, ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्यमाणत्वाद् एकविंशतिवन्धे त्रिष्वप्युदयस्थानेष्वष्टाविशतिरेकं सत्तास्थानं भवति ।
"सत्तरसे छ च्चेव" सप्तदशबन्धे षट् सत्तास्थानानि, तद्यथा--अष्टाविंशतिः सप्तविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । सप्तदशबन्धो हि द्वयानां भवति, तद्यथासम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृष्टीनां च । तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि, तद्यथासप्त अष्टो नव | अविरतसम्यग्दृष्टीनां चत्वारि, तद्यथा-पट् सप्त अष्टौ नव । तत्र पडदयोऽविरतानामोपशमिकसम्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनां वा प्राप्यते । तत्रोपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने, तद्यथा-अष्टाविंशतिः चतुर्विंशतिश्च । तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, उपश'मश्रेणिप्रतिपाते तु उपशान्तानन्तानुबन्धिनामष्टाविंशतिः, उद्वलितानन्तानुबन्धिनां तु चतुविंशतिः । क्षायिकसम्यग्दृष्टीनां त्वेकविंशतिरेव, क्षायिकं हि सम्यक्त्वं सप्तकक्षये भवति, सप्तकक्षये च जन्तुरेकविंशतिसत्कर्मेति । सर्वसङ्ख्यया षडुदये त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च ति । सप्तोदये मिश्रदृष्टीनां त्रीणि सत्तास्थानानि, तद्यथा
अष्टाविंशतिः सप्तविंशतिः चतुर्विंशतिश्च । तत्र योऽष्टाविंशतिसत्कर्मा सन् सम्यग्मिथ्यात्वं प्रतिपद्यते तस्याष्टाविंशतिः । येन पुनर्मिथ्यादृष्टिना सता प्रथमं सम्यक्त्वमुद्वलितं सम्यग्मिथ्यात्वं च नावाप्युद्वलितुमारभ्यते अत्रान्तरे परिणामवशेन मिथ्यात्वाद् विनिवृत्य सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य सप्तविंशतिः । यः पुनः पूर्व सम्यग्दृष्टिः सन् अनन्तानुवन्धिनो विसंयोज्य पश्चात् परिणामवशतः सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य चतुर्विंशतिः, सा च चतसृष्वपि गतिषु प्राप्यते, यतश्चतुर्गतिका अपि सम्यग्दृष्टयोऽनन्तानुवन्धिनो विसंयोजयन्ति । तदुक्तं कर्मप्रकृत्यां
. चउगइया पजत्ता, तिन्नि वि संजोयणे विजोयंति ।
करणेहिं तीहिं सहिया, अंतरकरणं उवसमो वा ॥ (गा० ३४३) अब "तिन्नि वि" त्ति अविरता देशविरताः सर्वविरता वा यथायोगमिति ।
अनन्तानुवन्धिविसंयोजनानन्तरं च केचित् परिणामवशतः सम्यग्मिथ्यात्वमपि प्रतिपद्यन्ते, ततश्चतसृष्वपि गतिषु सम्यग्मिथ्यादृष्टीनां चतुर्विंशतिः सम्भवति । अविरतसम्यग्दृष्टीनां तु सप्तोदये पञ्च सत्तास्थानानि, तद्यथा--अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरीपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा । चतर्विशतिरप्यभयेषाम् , नवरमनन्तानुबन्धिविसंयोजनानन्तरं सा अवगन्तव्या । त्रयोविंशतिद्वाविंशतिश्च
१ सं० १ त० मश्रेण्यां तूप० ॥ २ चतुर्गतिकाः पर्याप्ताः त्रयोऽपि संयोजनान् वियोजयन्ति । करणैस्त्रीभिः सहिता नान्तरकरणं उपशमो वा ॥