________________
१६६ ] मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः इह पदानि नाम-मिथ्यात्वम् अप्रत्याख्यानावरणक्रोधः प्रत्याख्यानावरणक्रोध इत्येवमादीनि, ततो वृन्दाना-दशायुदयस्थानरूपाणां पदानि पदवृन्दानि, आपत्वाद् राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दशब्दस्य परनिपातः, तेषां शतेरेकसप्तत्यधिकैकोनसप्ततिसङ्ख्यः ६९७१ मोहिताः संसारिणो जीवा विज्ञेयाः, एतावत्सङ्ख्याभिः कर्मप्रकृतिभिर्यथायोगं मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः।
'अथ कथमेकसप्तत्यधिकैकोनसप्ततिमङ्ख्यानि पदानां शतानि भवन्ति ? उच्यते-इह दशोदये दशपदानि, दशप्रकृतय उदयमागता इत्यर्थः, एवं नवोदयादिष्वपि नवादीनि पदानि भावनीयानि । ततो दशोदय एको दशभिगुण्यते, नवोदयाश्च षड् नवभिः, अष्टोदयाश्च एकादश अष्टभिः, सप्तोदया दश सप्तभिः, षडुदयाः सप्त षड्भिः, पञ्चकोदयाश्चत्वारः पञ्चभिः, ' चतुरुदय एकश्चतुर्भिः, द्विकोदय एको द्वाभ्याम् , गुणयित्वा चैते सर्वेऽपि एकत्र मील्यन्ते ततो जाते व शते नवत्यधिके २९० | एतेषु च प्रत्येकमेकैका चतुर्विंशतिङ्गकानां प्राप्यत इति भूयश्चतुर्विंशत्या गुण्यन्ते, गुणितेषु च सत्सु एकादयभङ्गापदान्येकादश प्रक्षिप्यन्ते ततो यथोक्तसङ्ख्यान्येव पदानां शतानि भवन्ति । इयं चोदयस्थानसङ्ख्या पदसङ्ख्या च ये मतान्तरेण चतुर्विधबन्धसङ्कमकाले द्विकोदये द्वादश भङ्गा उक्तास्तानधिकृत्य वेदितव्याः ।। १९ ।। यदा पुनरेते नाधिक्रियन्ते तदा इयमुदयस्थानपदमङ्ख्यानवतेसोयसएहिं, उदय विगप्पेहि मोहिया जीवा ।
अउणत्तरिसीयाला, पयविंदसएहि विन्नेया ॥ २० ॥ उदयविकल्पैम्व्यशीत्यधिकनवशतसङ्घय : १८३ तथा दशोदयादिरूपवृन्दान्तर्गतानां पदानां शतः सप्तचत्वारिंशदधिकेकोनसप्ततिसङ्ख्य ६९४७ यथायोगं सर्वेऽपि संसारिणो जीवाः 'मोहिताः' मोहमापादिता विज्ञेयाः । तत्रोदयस्थानेषु पूर्वोक्तपकारेण परिसङ्ख्यायमानेषु ये मतान्तरेणोक्ताश्चतुर्विधवन्ध स्थाने द्विकोदये द्वादश भङ्गाम्तेऽपसायन्ते, ततो नव शतानि व्यशीत्यधिकानि ६८३ उदयविकल्पानां भवन्ति । पदेषु च परिसङ्घयायमानेषु मतान्तरेणोक्तद्वादशभङ्गगतानि चतुर्विंशतिपदानि अपनीयन्ते, ततो यथोक्तपदानां सङ्ख्या भवति । इह दशादय उदयास्तद्भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तमौहूर्तिकाः, तथाहि-.-चतुरादिषु दशोदयपर्यन्तेष्ववश्यमन्यतमो वेदोऽन्यतरद् युगलं विद्यते, वेदयुगलयोश्च मध्येऽन्यतरदवश्यं मुहूर्तादारतः परावर्तते, तदुक्तं पश्चसङ्ग्रहमूलटोकायाम्---
१ सं० त० छा० अत्र ॥ २ सं० १ त० यश्च ए॥ ३ सं० त० "स्थानेषु द्वि ॥ ४ सं० छा० ०न्तरोक्ताद्वा०।