________________
१९५
१७-१६]
चन्द्रर्णिमहत्तरकृतं सप्रतिकाप्रकरणम् सम्प्रति दशादिषु एकपर्यवसानेषु उदयस्थानेषु यावन्तो भङ्गाः सम्भवन्ति तावतो निर्दिदिक्षुराह--
एकग छक्के कारस, दस सत्त चउक्क एक्कगा चेव ।
एए चउचीसगया, चउचीस दुगेक्कमिक्कारा ॥ १८ ॥
इह दशादीन्युदयस्थानान्यधिकृत्य यथासङ्ख्यं सङ्ख्यापदयोजना कर्तव्या, सा चेवम्-दशोदये एका चतुर्विंशतिः नवोदये षट्, तद्यथा-द्वाविंशतिबन्धे तिस्रः, एकविंशतिबन्धे मिश्राऽविरतसम्यग्दृष्टि सप्तदशवन्धे च प्रत्येकमेकैका । अष्टोदये एकादश-तत्र द्वाविंशतिबन्धे अविरतसम्यग्दृष्टि सप्तदशवन्धे च प्रत्येकं तिस्रः तिस्रः, एकविंशतिबन्धे मिश्रसप्तदशबन्धे च प्रत्येकं द्वे द्वे, त्रयोदशबन्धे चैका । तथा सप्तोदये दश-तत्र द्वाविंशतिबन्धे एकविंशतिबन्धे मिश्रसप्तदशबन्धे च प्रत्येकमेकैका, अविरतसम्यग्दृष्टिसप्तदशबन्धे त्रयोदशवन्धे च प्रत्येकं तिस्रः तिस्रः, नवकबन्धे त्वेका । तथा षडुदये सप्त-तत्राविरतसम्यग्दृष्टि सप्तदशवन्धे एका, त्रयोदशबन्धे नवकवन्धे च प्रत्येकं तिस्रः तिस्रः । तथा पञ्चकोदये चतस्रः-तत्र त्रयोदशवन्धे एका, नवबन्धे तिस्रः । चतुकोदये एका चतुर्विंशतिः । “एए चउवीसगय" त्ति 'एते' अनन्तरोक्ता एकादिकाः सङ्ख्याविशेषाः 'चतुर्विंशतिगताः' चतुर्विंशत्यभिधायका एता अनन्तरोक्ताश्चतुर्विंशतयो ज्ञातव्या इत्यर्थः । एताश्च सर्वसङ्ख्यया चत्वारिंशत् । तथा 'चउवीस दुगे" त्ति द्विकोदये चतुर्विंशतिरेका भङ्गकानाम् , एतच्च मतान्तरेणोक्तम् , अन्यथा स्वमते द्वादशैव भङ्गा वेदितव्याः । “इक्कमिक्कार" त्ति एकोदये एकादश भङ्गाः । ते चैवम-चतुर्विधवन्धे चत्वारः, त्रिविधवन्धे त्रयः, द्विविधबन्धे द्वौ, एकविधवन्धे एकः, बन्धाभावे चैक इति ।। १८ ॥ सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसङ्ख्यानिरूपणार्थमाह--
नवपंचाणउइसएहुदयविगप्पेहि मोहिया जोवा । __इह दशादिषु द्विकपर्यवसानेषु उदयस्थानेषु उदयस्थानभङ्गकानामेकचत्वारिंशत् चतुर्विशतयो लब्धाः, तत एकचत्वारिंशत् चतुर्विंशत्या गुण्यते, गुणितायां च सत्यां जातानि नव शतानि चतुरशीत्यधिकानि ६८४ । ततः तत्रैकोदयभङ्गा एकादश प्रक्षिप्यन्ते, तेषु च प्रक्षिप्तेषु नव शतानि पञ्चनवत्यधिकानि ६६५ भवन्ति । एतावद्भिरुदयस्थानविकल्दै यथायोगं सर्वे संसारिणो जावाः 'मोहिताः' मोहमापादिता' विज्ञयाः ।।
सम्प्रति पदसङ्ग्यानिरूपणार्थमाह
अउणत्तरिएगुत्तरिपयविंदसएहिँ विन्नेया ॥१९॥ १ सं० भङ्गका० ॥ २ सं १त० ०ता वेदितव्याः ।।