________________
१६४ मलयगिरिमहर्पिविनिर्मित विवृत्युपेतं
[ गाथा 'इत्तो चउबंधाई, इफ्केक्कुदया हवंति सव्वे वि ।
बंधोवरमे वि तहा, उदयाभावे वि वा होज्जा ॥ १७ ॥
'इतः' पश्चकबन्धादनन्तरं चतुर्वन्धादयः सर्वेऽपि प्रत्येकम् 'एकैकोदयाः' एकैकप्रकृत्युदयाः 'भवन्ति' ज्ञातव्याः, तथाहि-चतुर्विधवन्धो भवति पुरुषवेदबन्धव्यवच्छेदे सति, पुरुषवेदस्य च युगपद् बन्ध-उदयौ व्यवच्छियेते ततश्चतुर्विधबन्धकाले एकोदय एव भवति, स च चतुर्णां संज्वलनानामन्यतमः । अत्र चत्वारो भङ्गाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणि प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः । इह केचिच्चतुर्विधवन्धसङ्क्रमकाले त्रयाणां वेदानामन्यतमस्य वेदस्योदयमिच्छन्ति, ततस्तन्मतेन चतुर्विधवन्धकस्यापि प्रथमकाले द्वादश द्विकोदयभङ्गा लभ्यन्ते । तदुक्तं पश्चसङ्ग्रहमूलटीकायाम्
चतुर्विधवन्धकस्याप्याद्यविभागे त्रयाणां वेदानामन्यतमस्य वेदस्योदयं केचिदिच्छन्ति, अतश्चतुर्विधवन्धकस्यापि द्वादश द्विकोदयान जानीहि । (पत्र २१६) इति ।
तथा च सति तेषां मतेन सर्वसङ्ख्यया द्विकोदये चतुर्विंशतिर्भङ्गा अवसेयाः । संज्वलनक्रोधवन्धव्यवच्छेदे च सति त्रिविधो वन्धः, तत्राप्येक विध एवोदयः । अत्र त्रयो भङ्गाः, नवरमत्र संज्वलनक्रोधवर्जानां त्रयाणामन्यतम इति वक्तव्यम् , यतः संज्वलनक्रोधोदये सत्यवश्यं संज्वलनक्रोधस्य बन्धेन भवितव्यम् “जे वेयइ ते बंधइ" इति वचनात् , तथा च सति चतुर्विध एव बन्धः प्रसक्तः । ततः संज्वलनक्रोधस्य बन्धे व्यवच्छिद्यमाने उदयोऽपि व्यवच्छिद्यत इति त्रिविधे बन्धे एकविध उदयस्त्रयाणामन्यतम इति वक्तव्यम् । मंचलनमानवन्धव्यवच्छेदे द्विविधो बन्धः, तत्राप्येकविध एवोदयः, केवलं स माया-लोभयोरन्यतर इति वक्तव्यः, युक्तिः प्रागिवात्राप्यनुसरणीया, अत्र च द्वौ भङ्गो । संज्वलनमायावन्धव्यवच्छेदे एकस्य संज्वलनलोभस्य बन्धः तस्यैव चोदयः, अत्रैको भङ्गः । इह यद्यपि चतुरादिषु बन्धस्थानेषु संज्वलनानासुदयमधिकृत्य न कश्चिद् विशेषः. तथापि वन्धस्थानापेक्षया भेदोऽस्तीति भङ्गाः पृथगग्रे गणयिष्यन्ते । तथा 'बन्धोपरमेऽपि' बन्धाभावेऽपि मोहनीयस्य सूक्ष्मसम्परायगुणस्थानके एकविध उदयो भवति, स च संज्वलनलोभस्यावसेयः, तद्गतसूक्ष्मकिट्टिवेदनात् । ततः परम् 'उदयाभावेऽपि' उदयेऽपगतेऽपि उपशान्तकषायमधिकृत्व मोहनीयं सद् भवति, एतच्च प्रसङ्गागतमिति कृत्वोक्तम् , अन्यथा बन्धस्थानोदयस्थानेषु परस्परं संवेधेन चिन्त्यमानेषु नेदं सत्कर्मताभिधानमुपयोगीति ।। १७ ॥
१ सं० छा० 'तुर्विधो ब° ॥२ सं० छा० °मणका ।। ३ सं० त० ०क एकोद० । ४ यो वेदयति स बन्धयति ।। ५ सं० स०१ त० छा० ० से ब० ॥ ६ सं० ०धबन्धे ॥ ७ सं० ०क्तव्यः ।।