________________
१५-१६] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ॥
१६३ क्त्वे वा प्रक्षिप्ते सप्तानामुदयः । अत्र भयादिषु प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव षट्के भय-जुगुप्सयोर्भय-वेदकसम्यक्त्वयोर्जुगुप्सा-वेदकसम्यक्त्वयोर्वा प्रक्षिप्तयोरष्टानामुदयः। तत्राप्येकैकस्मिन् विकल्पे भड़कानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विशतयः । भय-जुगुप्सा-वेदकसम्यक्त्वे'षु च युगपत् प्रक्षिप्तेषु नवानामुदयः, अत्र चैका भङ्गकानां चतुर्विंशतिः। अविरतसम्यग्दृष्टीनां सर्वाश्चतुर्विंशतयोऽष्टौ । सर्वसङ्ख्यया सप्तदशबन्धे द्वादश चतुर्विंशतयः ।
"तेरे पंचाइ अट्ठव" त्रयोदशके बन्धस्थाने पश्चादीन्यष्टपर्यन्तानि चत्वायुदयस्थानानि भवन्ति, तद्यथा-पञ्च षट् सप्त अष्टौ। तत्र प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमौ द्वौ क्रोधादिको, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयु गलयोरन्यतरद् युगलमित्येतासां पञ्चानां प्रकृतीनामुदयः त्रयोदशबन्धे ध्रुवः । अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । भय-जुगुप्यावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते षण्णामुदयः । अत्र भयादिभिस्त्रयो विकल्पाः, एककस्मिन विकल्पे भङ्गकानां चतुर्विशतिरिति तिस्रश्चतुर्विशतयः । तथा तस्मिन्नेव पञ्चके भय-जुगुप्सयोरथवा भय-वेदकसम्यक्त्वयोर्यद्वा जुगुप्सा-वेदकसम्यक्त्वयोः प्रक्षिप्तयोः सप्तानामुदयः । अत्रापि तित्रश्चतुर्विंशतयो भङ्गकानाम् । भय-जुगुप्सा-वेदकसम्यक्त्वेषु पुनयुगपत् प्रक्षिप्तेष्वष्टानामुदयः, अत्र चैका चतुर्विंशतिर्भङ्गकानाम् । सर्वसङ्ख्यया त्रयोदशवन्धे अष्टौ चतुर्विंशतयः ॥१५॥
____'चत्तारि" इत्यादि । नवबन्धकेषु प्रमत्तादिषु चतुरादीनि सप्तपर्यन्तानि चत्वारि "उदयंस" ति उदयरूपविभागस्थानानि, उदयस्थानानीत्यर्थः । तद्यथा---चतस्रः पञ्च षट् सप्त । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिकः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलमित्येतासां चतसृणां प्रकृतीनामुदयः क्षायिकसम्यग्दृष्टिषु औपशमिकसम्यग्दृष्टिषु वा प्रमत्तादिषु ध्रुवः, अत्र चैका मङ्गकानां चतुर्विंशतिः । अस्मिन्नेव चतुष्के भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पञ्चानामुदयः, अत्र भङ्गकानां तिस्रश्चतविंशतयः । तथा तस्मिन्नेव चतुष्के भय-जुगुप्सयोरथवा भय-वेदकसम्यक्त्वयोर्यद्वा जुगुप्सा-वेदकसम्यक्त्वयोः प्रक्षिप्तयोः पण्णामुदयः, अत्रापि तिस्रश्चतुर्विशतयो भङ्गाकानाम् । भय-जुगुप्सा-वेदकसम्यक्त्वेषु तु युगपत् प्रक्षिप्तेषु सप्तानामुदयः, अत्र भङ्गकानामेका चतविंशतिः । सर्वसङ्ख्यया नववन्धके अष्टौ चतर्विशतयः । “पंचविह" इत्यादि । पञ्चविधबन्धकेषु पुनरुदयो द्वयोः प्रकृत्योर्ज्ञातव्यः, प्रकृतिद्वयात्मकमेकमुदयस्थानमिति भावः । तत्र चतुर्णा संज्वलनानामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, अत्र त्रिभिदैश्चतुर्भिश्च संज्वलनैर्द्वादश भङ्गाः ।। १६ ।।
१ सं० १ त० षु युग ॥ .
25