________________
.".
[ गाथाः
१६२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
चैका भङ्गकानां चतुर्विंशतिः । सर्वसङ्ख्यया एकविंशतिबन्धे चतस्रश्चतुर्विंशतयः । अयं चैकविंशतिबन्धः सासादने प्राप्यते । सासादनश्च द्विधा, श्रेणिगतोऽश्रेणिगतश्च । तत्राश्रेणिगतं सासादनमाश्रित्यामुनि सप्तादीनि उदयस्थानान्यवगन्तव्यानि ।
यस्तु
श्रेणिगतस्तत्रादेशद्वयम् - केचिदाहुः - अनन्तानुबन्धिसत्कर्मसहितोऽप्युपशमश्रेणि प्रतिपद्यते, तेषां मतेनानन्तानुबन्धिनामप्युपशमना भवति । एतच्च सूत्रेऽपि संवादि, तदुक्तं सूत्रे - अणदंसणपु सित्थी, (आव० नि० गा० ११६ ) इत्यादि ।
श्रेणितश्च प्रतिपतन् कश्चित् सासादनभावमप्युपगच्छति, सास्वादनभावं चोपगते यथोक्तानि त्रीणि उदयस्थानानि भवन्ति ।
अपरे पुनराहुः - अनन्तानुबन्धिनः क्षपयित्वैवोपशमश्रेणि प्रतिपद्यते न तत्सत्कर्मा, तेषां मतेन श्रेणितः प्रतिपतन् सासादनो न भवति, तस्यानन्तानुबन्ध्युदयासम्भवात्, अनन्तानु-बन्ध्युदयसहितश्च सासादन इष्यते, “अनंता रणुबंधुदयरहियस् सासणभावो न संभवइ " इति वचनात् ।
,
अच्यते-यदा मिथ्यात्वं प्रत्यभिमुखो न चाद्यापि मिध्यात्वं प्रतिपद्यते तदानीमनन्तानुबन्ध्युदयरहितोऽपि सासादनस्तेषां मतेन भविष्यतीति किमत्रायुक्तम् ? तदयुक्तम् एवं सति तस्य षडादीनि नवपर्यन्तानि चत्वायु दयस्थानानि भवेयुः, न च भवन्ति, सूत्रे प्रतिषेधात्, तैरप्यनभ्युपगमाच्च, तस्मादनन्तानुबन्ध्युदयरहितः सासादनो न भवतीत्यवश्यं प्रत्येयम् ।
"छाई नव सत्तर से" सप्तदशके बन्धस्थाने षडादीनि नवपर्यन्तानि चत्वायु दयस्थानानि भवन्ति, तद्यथा-पट् सप्त अष्टौ नव । सप्तदशबन्धका हि द्वये सम्यग्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयश्च । तत्र सम्यग्मिथ्यादृष्टीनां त्रीणि उदयस्थानानि तद्यथा - सप्त अष्ट नव । तत्रानन्तानुबन्धिवर्जाः त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्यु' गलयोरन्यतरद् युगलम्, सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयः सम्यग्मिथ्यादृष्टिषु ध्रुवः । अत्र प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः । अस्मिन्नेव सप्तके भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टानामुदयः, अत्र द्वे चतुर्विंशती भङ्गकानाम् । भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोर्नवानामुदयः, अत्र चैका चतुर्विंशतिर्भङ्गकानाम् । सर्वसङ्ख्यया सम्यग्मिथ्यादृष्टीनां चतस्रचतुर्विंशतयः । अविरतसम्यग्दृष्टीनां सप्तदशबन्धकानां चत्वायुदयस्थानानि तद्यथा - षट् सप्त अष्टौ नव । तत्रौपशमिकसम्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनां च अविरतसम्यग्दृष्टीनां अनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमिति षण्णामुदयो ध्रुवः । अत्र प्रागिव भङ्गकानामेका चतुर्विंशतिः । अस्मिन्नेव षट्के भये वा जुगुप्सायां वा वेदकसम्य