SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ १४-१६] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । १९१ जाताः पट् , ते च प्रत्येकं क्रोधादिषु चतुर्यु प्राप्यन्ते इति षट् चतुर्भिगुणिता जाताश्चतुर्वि-' शतिः । तस्मिन्नेव सतके भये वा जुगुप्सायां वा अनन्तानुबन्धिनि वा प्रक्षिप्ते अष्टानामुदयः । . अत्र भयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्येते इति तिस्रः चतुर्विंशतयोऽत्र द्रष्टव्याः । ...। ननु मिथ्यादृष्टेरवश्यमनन्तानुबन्धिनामुदयः सम्भवति तत् कथमिह मिथ्यादृष्टिः सप्तोदये अष्टोदये वा कस्मिंश्चिदनन्तानुबन्ध्युदयरहितः प्रोक्तः ? उच्यते---इह सम्यग्दृष्टिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव च स विश्रान्तो, न मिथ्यात्वादिक्षयाय उद्युक्तवान् तथाविधसामग्र्यभावात् , ततः कालान्तरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुवन्धिनो बध्नाति, ततो बन्धा'वलिका यावत् नाद्याप्यतिक्रामति तावत् तेषामुदयो न भवति, बन्धावलिकायां त्वतिक्रान्तायां भवेदिति । ननु कथं बन्धावलिकातिक्रमेऽप्युदयः सम्भवति ? यतोऽबाधाकालक्षये सत्युदयः, अबाधाकालश्चानन्तानुबन्धिनां जघन्येनान्तमुहूर्तम् , उत्कर्षेण तु चत्वारिं वर्षसहस्राणीति, नैष दोपः, यतो बन्धसमयादारभ्य तेषां तावत् सत्ता भवति, सत्तायां च सत्यां बन्धे प्रवर्तमाने पतद्ग्रहता, यतद्ग्रहतायां च शेषसमानजातीयप्रकृतिदलिकसङ्क्रान्तिः, सङ्क्रमाच्च दलिकं पतद्ग्रहप्रकृतिरूपतय! परिण मते, ततः सङ्कमावलिकायामतीतायामुदयः, ततो बन्धावलिकायामतीतायामुदयो. ऽभिधीयमानो न विरुध्यते । तथा तस्मिन्नेव सप्तके भय-जुगुप्सयोः अथवा भया-ऽनन्तानुबन्धिनोः यद्वा जुगुप्सा-5नन्तानुबन्धिनोः प्रक्षिप्तयोनेवानामुदयः । अत्राप्येककस्मिन् विकल्पे प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः प्राप्यते इति तिस्त्रश्चतुर्विंशतयो द्रष्टव्याः । तथा तस्मिन्नेव सप्तके भय-जुगुप्सा-5नन्तानुबन्धिषु प्रक्षिप्तेषु दशानामुदयः । अत्रेकेव भङ्गकानां चतुर्विंशतिः । सर्वसङ्ख्यया द्वाविंशनिबन्धे अष्टौ चतुर्विंशतयः । "नव एक्कवीस" त्ति 'एकविंशतो' एकविंशतिबन्धे सप्तादीनि नवपर्यन्तानि त्रीणि उदयस्थानानि भवन्ति, तद्यथा-सप्त अष्टो नव । तत्र सप्त अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद् युगलम् , एतासां सप्तप्रकृतीनामुदयः एकविंशतिबन्धे ध्रुवः । अत्र प्रागुक्तक्रमेण भङ्ग कानां चतुर्विंशतिः । तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः । अत्र द्वे चतुर्विंशती भङ्गकानाम् । भय जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोर्नवानामुदयः। अत्र १ सं० म० मुद्रि० °वलिकां यां ॥ २ सं० १ त० म० ०मति ॥ ३ सं० १२० त० म० व्यः । नव एकविंशतिः 'एक०॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy