________________
१६०
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
(गाथाः ... अमीषां च द्वाविंशत्यादिबन्धस्थानानां कालप्रमाणमिदम्--द्वाविंशतिबन्धस्य कालोऽभव्यानधिकृत्य अनाद्यपर्यवसितः, भव्यानधिकृत्यानादिसपर्यवसितः. सम्यक्त्वपरिभ्रष्टानधिकृत्य जघन्येनान्तर्मुहूर्तप्रमाणः, उत्कर्पतो देशोनोऽपार्धपुद्गलपरावर्तः। एकविंशतिबन्धस्य कालो जघन्येन समयमात्रः, उत्कर्पतः षडावलिकाः । सप्तदशबन्धस्य कालो जघन्येनान्तमुहूर्तम् , उत्कर्पतः किश्चित् समधिकानि त्रयस्त्रिंशत्सागरोपमाणि । तथाहि-त्रयस्त्रिंशत्सागरोपमाणि अनुत्तरसुरस्य प्राप्यन्ते, अनुत्तरसुरभवाच्च च्युत्वा यावदद्यापि देशविरतिं सर्वविरति वा न प्रतिपद्यते तावत् सप्तदशवन्ध एवेति किश्चित्समधिकानि त्रयस्त्रिंशत्सागरोपमाणि । त्रयोदशवन्धस्य नवबन्धस्य च कालः प्रत्येकं जघन्येनान्तमुहूर्तम् , उत्कर्षतस्तु देशोना' पूर्वकोटी, यतस्त्रयोदशबन्धो देशविरतौ, नवकबन्धस्तु “सर्वविरतौ, देशविरतिः सर्वविरतिश्चोत्कर्षतोऽपि देशोनपूर्वकोटिप्रमाणा । पञ्चादिषु पुनर्वन्धस्थानेषु कालः प्रत्येकं जघन्येने के समयम् , उत्कर्षण चान्तुमुहूर्तम् , एकसमयता कथम् ? इति चेद् उच्यते-उपशमश्रेण्यां पञ्चविधं बन्धमारभ्य द्वितीये समये कश्चित् कालं कृत्वा देवलोकं याति, देवलोके च गतः सन् अविरतो भवति, अविरतत्वे च सप्तदशबन्ध इत्येकसमयता । एवं चतुर्विधवन्धादिष्वपि भावनीयम् ।। १४॥ . तदेवं कृता कालनिरूपणा सम्प्रत्येतेषामेव बन्धस्थानानां मध्ये कस्मिन् कियन्ति प्रागुक्तान्युदयस्थानानि भवन्ति ? इत्येतद् निरूप्यते----
दश बावीसे नव इकवीस सत्ताइ उदयठाणाई । छाई नव संत्तरसे, तेरे पंचाइ अट्ठव ॥१५॥
चंतारिमाई नवबंधगेखें उक्कोस सत्त उदयंसा । " पंचविहबंधगे पुण, उदओ दोण्ह मुणेयव्वो ॥ १६ ॥ - 'द्वाविंशतो' द्वाविंशतिवन्धे सप्तादीनि दशपर्यन्तानि चत्वारि उदयस्थानानि भवन्ति । तद्यथा--सप्त अष्टौ नव दश । तत्र मिथ्यात्वम् अप्रत्याख्यान प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यत एकस्मिन् क्रोधे वेद्यमाने सर्वेऽपि क्रोधा वेद्यन्ते, समानजातीयत्वात् । एवं मान-माया-लोभा अपि द्रष्टव्याः । न च युगपत् क्रोध मान-माया-लोभानामुदयः, परस्परविरोधाद् इत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, हास्य-रतियुगला-ऽरति-शोकयुगलयोरन्यतरद् युगलम् , एतासां सप्तप्रकृतीनां द्वाविंशतिबन्धके मिथ्यादृष्टाबुदयो ध्रुवः । अत्र भङ्गाश्चतुर्विंशतिः, तद्यथा--हास्य-रतियुगले अरति-शोकयगले च प्रत्येकमे कैको भङ्गः प्राप्यत इति द्वौ भङ्गो, तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्येते इति द्वौ त्रिभिगुणितौ
१ सं० १ त० "नपूर्व° ॥२ सं० १ म० छा० तारिआइ ॥ ३ सं० १ वन्तीत्यर्थः । '