________________
१८६
११.१४ ]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । मायायां क्षपितायामेका प्रकृतिः 'सतीति। तदेवमुक्तानि सत्तास्थानानि एतेषु पुनर्बन्ध-उदयसत्तास्थानेषु प्रत्येकं संवेधेन च बहवो भङ्गा भवन्ति, ताश्च भङ्गान् यथावत् प्रतिपाद्यमानान् सम्यग् जानीहि ।।१२ ।। १३ ।। तत्र प्रथमतो बन्धस्थानेषु भङ्गनिरूपणार्थमाह--
छब्बावीसे चउ इगवीसे सत्तरस तेरसे दो दो ।
नवबंधगे वि दोन्नि उ, एक्ककमओ परं भंगा ॥१४॥ 'द्वाविंशतो' द्वाविंशतिबन्धे पड़ विकल्पा भवन्ति । तत्र द्वाविंशतिरियम्-मिथ्यात्वं, पोडश कषायाः, त्रयाणां वेदानामन्यतमो वेदः, हास्य-रतियुगलाऽ-रति-शोकयुगलयोन्यतरद् युगलं, भयं जुगुप्सा च । अत्र भङ्गाः षट् तथाहि हास्य-रतियुगले अरति-शोकयुगले च प्रत्येकं द्वाविंशतिः प्राप्यते इति द्वौ भङ्गो, तो च द्वौ भङ्गो त्रिष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यते इति द्वो त्रिभिगुणितो जाताः षट् । सैव द्वाविंशतिमिथ्यात्वेन विना एकविंशतिः, नवरमत्र द्वयोवृदयोरन्यतरो वेद इति वक्तव्यम् , यत एकविंशतिबन्धकाः सासादनसम्यग्दृष्टयः, ते च स्त्रीवेदं वा बध्नन्ति पुरुषवेदं वा, न नपुसकवेदम् , नपुसकवेदबन्धस्य मिथ्यात्वोदयनिबन्धनत्वात् , स सादनानां च मिथ्यात्वोदयाभावात् । अत्र च भङ्गाश्चत्वारः, तथा चाह - "चउ एगवीस" त्ति 'एकविंशतौ' एकविंशतिबन्धे चत्वारो भङ्गाः । तत्र हास्य-रतियुगला-ऽरति-शोकयुगलाभ्यां प्रागिव द्वो भङ्गो, तो च प्रत्येक स्त्रीवेदे पुरुषवेदे च प्राप्यते इति द्वौ द्वाभ्यां गुणिती जाताश्चत्वारः । सैव चैकविंशतिरनन्तानुबन्धिचतुष्टयबन्धाभावे सप्तदश, नबरमत्र वेदेषु मध्ये पुरुषवेद एवैको वक्तव्यः, न स्त्रीवेदोऽपि, यतः सप्तदशवन्धकाः सम्यग्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयो वा, न चैते स्त्रीवेदं बध्नन्ति, तद्वन्धस्यानन्तानुवन्ध्युदयनिमित्तत्वात , सम्यग्मिथ्यादृष्टयादीनां चानन्तानुबन्ध्युदयाभावात् । अत्र च हास्य-रतियुगला-ऽरति-शोकयुगलाभ्यां प्रागिव द्वौ भङ्गो । ता एवं सप्तदश प्रकृतयोऽप्रत्याख्यानकषायचतुष्टयरहितास्त्रयोदश, अत्रापि प्रागिव द्वो भङ्गो, तथा चाह – “सत्तरस तेरसे दो दो" सप्तदशबन्धे त्रयोदशवन्धे च प्रत्येकं द्वो द्वौ भङ्गो । ता एव त्रयोदश प्रत्याख्यानावरणचतुष्टयरहिता नव, अत्रापि तावेव द्वौ भङ्गो, यत आह-"नवबंधगे वि दोन्नि उ" नवबन्धके द्वो भङ्गो, तो च प्रमत्ते द्वावपि द्रष्टव्यौ, अप्रमत्ता-ऽपूर्वकग्णयोस्त्वेक एव भङ्गः, तत्रारति-शोकरूपस्य युगलस्य बन्धासम्भवात् । तथा ता एव नव हास्य-रांतयुगलभय-जुगुप्साबन्धव्यवच्छेदे पञ्च, अत्रैको भङ्गः । एवं चतुः-त्रि-द्वि-एकबन्धेष्वपि प्रत्येकमेकेक एव भङ्गो वाच्यः, तथा चाह-'एक्कमओ परं भंगा" 'अतः' नवकवन्धात् परं पञ्चादिषु भङ्गाः प्रत्येकम् ‘एकैकः' एकैकसङ्ख्या' वेदितव्याः । मकारस्त्वलाक्षणिकः ।
१ सं० त० सती । त० ॥२ सं० १ त० ततश्च भङ्गान् प्रति० ॥ ३ मुद्रि० एकैव संख्या।।