________________
१८८
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः 'ओघेन' सामान्येन मोहनीये उदयस्थानानि नव भवन्ति, तद्यथा-एकं द्वे चत्वारि 'अतः' चतुष्कावं त्वेकाधिका उदयविकल्पास्तावदवगन्तव्या यावदुत्कर्षतो 'दश' दशकमुदयस्थानं भवतीत्यर्थः १-२-४-५.६-७-८-६-१० । एतानि चानिवृत्तिबादरसम्परायगुणस्थानकादारभ्य पश्चानुपूर्व्या किश्चिद् भाव्यन्ते-तत्र चतुणां संज्वलनानामन्यतमस्योदये एकमुदयस्थानम् , तदेव वेदत्रयान्यतमवेदोदयप्रक्षेपे द्विकम् , तत्रापि हास्य-रतिरूपयुगलप्रक्षेपे चतुष्कम् , तत्रैव भयप्रक्षेपात् पञ्चकम् , जुगुप्साप्रक्षेपात् षट्कम् , तत्रैव चतुर्णा प्रत्याख्यानावरणकपायाणामन्यतमस्य प्रक्षेपे सप्तकम् , तव चाप्रत्याख्यानावरणकपायाणामन्यतमस्य प्रक्षेपेऽष्टकम् , तत्रैव चतुर्णामनन्तानुबन्धिकषायाणामन्यतमस्य प्रक्षेपे नवकम् , तत्रैव मिथ्यात्वप्रक्षेपे दशकम् । एतच्च सामान्येनोक्तम् विशेषतस्त्वग्रे सूत्रकृदेव सप्रपञ्चं कथयिष्यतीति तत्रैव भावयिष्यते ॥११॥ तदेवमुक्तान्युदयस्थानानि । सम्प्रति सत्तास्थानानि प्रतिपिपादयिषुराह
अट्ठगसत्तगठच्चउतिगद्गए गाहिया भवे वीसा । तेरस बारिकारस, इत्तो पंचाइ एक्कूणा ॥ १२ ।। संतस्स पगइठाणाई ताणि मोहस्स हुँति पन्नरस ।। बंधोदयसंत पुण, भंगवि गप्पा बहू जाण ॥ १३ ।। विंशतिः अष्टक-सप्तक पटक चतुः-त्रि-द्वि-एकाधिका, तथा त्रयोदश द्वादश एकादश, 'अतः' एकादशकात् सत्तास्थानाद् ‘एकोनानि' एकैकोनानि पश्चादीनि सत्तायाः प्रकृतिस्थानानि मोहनीयस्यावगन्तव्यानि, तानि च सर्वसङ्ख्यया पञ्चदश भवन्ति । इदमत्र तात्पर्यम्-मोहनीये पञ्चदश सत्ताप्रकृतिस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिः चतुर्विशतिः वयोविंशतिः द्वाविंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः तिस्रः द्वे एका च । तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यग्मिथ्यात्वे उद्वलिते पविशतिः, अनादिमिथ्यादृष्टेर्वा पड्विंशतिः । अष्टाविंशतिसत्कर्मणोऽनन्तानुवन्धिचतुष्टयक्षये चतुर्विंशतिः । ततोऽपि मिथ्यात्वे क्षपिते त्रयोविंशतिः । ततोऽपि सम्यग्मिथ्यात्वे क्षपिते द्वाविंशतिः । ततः सम्यक्त्वे क्षषिते एकविंशतिः । ततोऽष्टस्वप्रत्याख्यान-प्रत्याख्यानावरणसंज्ञेषु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षपिते द्वादश । ततोऽपि स्त्रीवेदे क्षपिते एकादश । ततः षट्षु नोकषायेषु क्षीणेषु पञ्च । ततोऽपि पुरुषवेदे क्षीणे चतस्रः । ततोऽपि संज्वलनक्रोधे क्षपिते तिस्रः । ततोऽपि संज्वलनमाने क्षपिते द्वे । ततोऽपि संज्वलन
१ सं० १ त० ०हनीयस्य ॥ २ सं० १ सं० त० म० ख्यानकषा०॥ ३ गाथेयं सप्ततिकाभाष्ये एकचत्वारिंशत्तमी ॥४ सं०१ सं० त० गप्पे ॥ ५ सं० म० छा० तत्र सं० ॥