________________
१८७
६-११]
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम्
मोहं परं वोच्छ ॥ ६॥ अतः परं मोहं वक्ष्ये, मोहनीयस्य बन्धादिस्थानानि वक्ष्य इत्यर्थः ॥ ९ ॥ तत्र प्रथमतो बन्धस्थानप्ररूपणार्थमाह-- 'बावीस एकवीसा, सत्तरसा तेरसेव नव पंच ।
चउ तिग दुगं च एक्कं, बंधहाणाणि मोहस्स ॥ १० ॥ 'मोहस्य' मोहनीयस्य बन्धस्थानानि, तद्यथा-द्वाविंशतिः एकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिस्रः द्वे एका च । तत्र सम्यक्त्व-सम्यग्मिथ्यात्वे बन्धे न भवतः, न च त्रयाणां वेदानां युगपद् बन्धः किन्त्वेककालमेकस्यैव, हास्य-रतियुगला-ऽरति-शोकयुगले अपि न युगपद् बन्धमायातः किन्त्वेकतरमेव 'युगलम् , ततो मोहनीयस्योत्कर्षतः प्रभूतप्रकृतिबन्धो द्वाविंशतिः, सा च मिथ्यादृष्टिगुणस्थानके प्राप्यते । ततः सामादनसम्यग्दृष्टिगुणस्थानके मिथ्यास्वस्य बन्धाभावाद् एकविंशतिः, यद्यप्यत्र नपुंसकवेदस्यापि बन्धो न भवति, तथापि तत्स्थाने स्त्रीवेदः पुरुषवेदो वा प्रक्षिप्यत इत्येकविंशतेरेव' बन्धः । ततो मिश्रा-ऽविरतसम्यग्दृष्टिगुणस्थानकयोरनन्तानुबन्धिनामपि बन्धाभावात् सप्तदश । ततोऽपि देशविरतिगुणस्थानकेऽप्रत्याख्यानकपायाणां बन्धाभावात् त्रयोदश । ततोऽपि प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणेषु प्रत्याख्याना वरणानां वन्धाभावाद् नव, यद्यपि अरति-शोकरूपं युगलं प्रमत्तगुणस्थानके एव व्यवच्छिन्नं, तथापि तत्स्थाने हास्य-रतियुगलं प्रक्षिप्यते इत्यप्रमत्ता-ऽपूर्वकरणयोर्नवकबन्धो न विरुध्यते । ततो हास्यरति-भय-जुगुप्सा अपूर्वकरणचरमसमये बन्धमाश्रित्य व्यवच्छिद्यन्ते इति अनिवृत्तिबादरसम्परोयगुणस्थानके प्रथमभागे पश्चानां बन्धः । द्वितीयभागे पुरुषवेदस्य बन्धाभावात् चतसृणां वन्धः । तृतीयभागे संज्वलनक्रोधस्य बन्धाभावात् तिहणां बन्धः । चतुर्थभागे संज्वलनमानस्य बन्धाभावाद् द्वयोर्वन्धः । पञ्चमभागे संज्वलनमायाया अपि बन्धाभावादेकस्याः संज्वलनलोभप्रकृतेर्वन्धः । ततः परं बादरसम्परायोदयाभावात् तस्या अपि न बन्धः ॥१०॥
तदेवमुक्तानि मोहनीयस्य बन्धस्थानानि । सम्प्रत्युदयस्थानान्यभिधित्सुराह"एक्कं व दो व चउरो, एत्तो एक्काहिया दसुक्कोसा । ओहेण मोहणिज्जे, उदयहाणा नव हवंति ।। ११ ।।
१ गाथेयं सप्ततिकाभाष्ये एकोनविंशतितमी ॥ २ भाष्ये तु-०णाणि दस माहे ॥३ सं० त० ०व । ततो ॥ ४ सं० १ त० ०वरणवन्धा० ॥ ५ मुद्रि० विना-०णाम . चतु० ॥ ६ मुद्रि० विना-८योः, पञ्चः ।। ७ गाथेयं सप्ततिकाभाष्ये पञ्चविंशतितमी।।म० उदये ठाणाणि नव हति। सं० १त. ०यट्राणाणि नव हुंति ॥