SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ १८६ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं. [ गाथाः ष्यायुषो बन्ध मनुष्यायुप उदयो मनुष्य मनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा । देवायुषो बन्धो मनुष्यायुष उदयो देव- मनुष्यायुषी सती, एष 'विकल्पोऽप्रमत्तगुणस्थानकं यावत् । एते चत्वारो विकल्पाः परभवायुर्वन्धकाले । बन्धे तु व्यवच्छिन्ने मनुष्यायुष उदयो नारक- मनुष्यायुषी सती, एष विकल्पोऽप्रमत्तगुणस्थानकं यावत्, नारकायुर्वन्धानन्तरं संयमप्रतिपत्तेरपि सम्भवात् । मनुष्यायुष उदयस्तिर्यङ- मनुष्यायुषी सती, एषोऽपि विकल्पोऽप्रमत्तगुणस्थानकं यावत् । मनुष्यायुप उदयो मनुष्य मनुष्यायुषी सती, एषोऽपि विकल्पः प्राग्वत् । मनुष्यायुष उदयो देव-मनुष्यायुषी सती, एष विकल्प उपशान्तमोहगुणस्थानकं यावत्, देवायुषि बद्धेऽप्युपशमश्रेण्या रोहसम्भवात् । सर्वसङ्ख्यया मनुष्याणां नव भङ्गाः । तदेवमायुषि सर्वसङ्ख्यया अष्टाविंशतिभङ्गाः || तथा गोत्रे सामान्येनैकं बन्धस्थानम्, तद्यथा - उच्चैगोत्रं नीचैर्गोत्रं वा, द्वयोः परस्परविरुद्धत्वेन युगपद्धन्धाभावात् । उदयस्थानमप्येकम्, तदपि द्वयोरन्यतरत् परस्परविरुद्धत्वेन युगपद् द्वयोरुदयाभावात् । द्वे सत्तास्थाने, तद्यथा - द्वे एकं च । तत्र उच्चैमंत्रि-नीचेर्गोत्रे समुदिते द्वे, तेजस्कायिक-वायुकायिकावस्थायां उच्चैर्गोत्रे उद्वलिते 'एकम् अथवा नीचैगोत्रेऽयोगिकेवलिद्विचरमसमये क्षीणे एकम् | 1 सम्प्रति संवेध उच्यते-नीचैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः नीचैगोत्रं सत्, एप विकल्पम्तेजस्कायिक-वायुकायिकेषु लभ्यते । तद्भवाद् उद्वृत्तेषु चाशेपजीवेष्वेक-द्वि-त्रि- चतुः- दिर्यपञ्चेन्द्रियेषु कियत्कालं नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, अथवा नीचेगोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च नीचैर्गोत्रे सती, एतौ द्वौ विकल्पौ मिथ्यादृष्टि सासादनेषु वा, न सम्यग्मिथ्यादृष्ट्यादिए, तेपां नीचैर्गोत्रबन्धाभावात् । तथा उच्चै गोत्रस्य बन्धो नीचे गोत्रस्योदय उच्च-नीचैगोंत्रे सती, एष विकल्पो मिध्यादृष्टिगुणस्थानकादारभ्य देशविरति - गुणस्थानकं यावत् प्राप्यते न परतः परतो नीचैर्गोत्रस्योदयाभावात् । तथा उच्चैगोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्च-नीचैर्गोत्रे सती, एष विकल्पों मिथ्यादृष्टेरारभ्य सूक्ष्मसम्पराय गुणस्थानकं यावद् न परतः, परतो बन्धाभावात् । बन्धाभावे उच्चैगोत्रस्योदय उच्च नीचैर्गोत्रे सती, एप विकल्प उपशान्तमोहगुणस्थानकादारभ्य अयोगिकेवलिद्विचरमसमयं यावदवसेयः । उच्चैगोत्र - स्योदय उच्चैगोत्रं सत्, एप विकल्पोऽयोगिकेवलि चरमसमये । तदेवमेते गोत्रस्य सर्वसङ्ख्या सप्त भङ्गाः ॥ १ सं० १ ० म० ०कल्पो मिश्रवमप्र० । २ मुद्रि० अयमध्यप्रमत्तगुणस्थानकं यावत् || ३ मुद्रि० अयमुपशा० ॥ ४ मुद्रि० एकम् अथवा नीचैर्गोत्रे उद्वलिते एकम् अथ० ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy