________________
s]
चन्द्रर्षि महत्तर कृतं सप्ततिका प्रकरणम्
१८५
कस्यापि सम्यक्त्वे सम्यग्मिथ्यात्वे वा गमनसम्भवात्, अथवा नारकायुष उदयो मनुष्य - नारकायुषी सती । इह नारका देवायुः नारकायुश्च भवप्रत्ययादेव न बध्नन्ति तत्रोत्पत्यभावात् ।
तदुक्तम्-
'देवा नारगा वा देवेसु नारगेसु विन उववज्जंति । इति ।
ततो नारकाणां परभवायुर्बन्धकाले बन्धोत्तरकाले च देवायुः - नारकायुभ्यां विकल्पाभावात् सर्वसङ्ख्यया पञ्चैव विकल्पा भवन्ति ।
ર
एवं देवानामपि पश्च विकल्पा भावनीयाः । नवरं नारकायुःस्थाने देवायुरिति वक्तव्यम्, तद्यथा - देवायुष उदयो देवायुषः सत्ता इत्यादि ।
,
तथा तिर्यगायुष उदयस्तिर्यगायुषः सत्ता, एष विकल्प आद्येषु पञ्चसु गुणस्थान के पु, शेषगुणस्थानकस्य तिर्यक्ष्वसम्भवात् एष विकल्पः परभवायुर्वन्धकालात् पूर्वम् । बन्धकले तु नारायुषो बन्धः तिर्यगायुष उदयो नारक-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः, अन्यत्र नारकायुषो बन्धाभावात् ; अथवा तिर्यगायुपो बन्धः, तिर्यगायुष उदयः, अ तिर्यक् तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा अथवा मनुष्यायुषो बन्धः, तिर्यगायुष उदयो मनुष्य - तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टे : सासादनस्य वा नान्यस्य, तिरश्वोऽविरतसम्यग्दृष्टेर्देशविरतस्य वा देवायुप एव बन्धसम्भवात् ; अथवा देवायुषो बन्धः, तिर्यगायुष उदयो देव - तिर्यगायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्देशविरतस्य वा, न सम्यग्मिथ्यादृष्टेः, तस्यायुर्वन्धाभावात् । एते चत्वारो विकल्पाः परभवायुबन्धकाले । बन्धे तु व्यवछिन्ने तिर्यगायुष उदयो नारक - तिर्यगायुषी सती, एष विकल्प आद्येषु पञ्चसु गुणस्थानकेषु, नारकायुर्घन्धानन्तरं सम्यक्त्वादावपि गमनसम्भवात्, अथवा तिर्यगायुष उदयस्तिर्यक् तिर्यगायुषी सती, अथवा तिर्यगायुष उदयो मनुष्य तिर्यगायुषी सती, अथवा तिर्यगायुष उदय देव - तिर्यगायुषी सती, एतेऽपि त्रयो विकल्पा आद्येषु पञ्चसु गुणस्थानकेषु । सर्वसङ्ख्या तिरां नव विकल्पाः, चतसृष्वपि गतिषु तिरश्वामुत्पादसम्भवात् ।
I
तथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष विकल्पोऽयोगिकेव लिनं यावत् । तथा नारकायुषो बन्धो मनुष्यायुष उदयो नारक मनुष्यायुषी सती, एष विकल्पो मिथ्या दृष्टेः । तथा तिर्यगायुषो बन्ध मनुष्यायुष उदयस्तिर्यङ्-मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा । मनु
१ देवा नारका वा देवेषु नारकेष्वपि नोपपद्यन्ते ॥। २ सं० त० म० पञ्चैव वि० ॥ ३ सं० त० ०यः, तिर्यगा० ॥ ४ सं० त० म० व्वत् । बन्धकाले तु नार० । स० ०वन् । नार० ॥ ५ सं० १ सं० त० म० ०द्दष्टेः । तिर्यगा ||
24