________________
१८४ • मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा वेदनीये आयुषि गोत्रे च यथागमं बन्धादिस्थानानि संवेधमाश्रित्य 'विभजेत्' विकल्पयेत् । तत्र वेदनीयस्य सामान्येनैकं बन्धस्थानम् , तद्यथा-सातमसातं वा, द्वयोः परस्परविरुद्धत्वेन युगपद्वन्धाभावात् । उदयस्थानमपि एकम् , तद्यथा-सातमसातं वा, द्वयोयुगपदुदयाभावात् परस्परविरुद्धत्वात् । सत्तास्थाने द्वे, तद्यथा-वे एकं च । तत्र यावदेकमन्यतरद् न क्षीयते तावद् द्वे अपि सती, अन्यतरस्मिश्च क्षीणे एकमिति ।
सम्प्रति संवेध उच्यते- असातस्य बन्धः असातस्य उदयः साता-ऽसाते सती, अथवा असातस्य बन्धः सातस्य उदयः साता-ऽसाते सतीः एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकात् प्रभृति प्रमत्तगुणस्थानकं यावत् प्राप्येते न परतः, परतोऽसातस्य बन्धाभावात् । तथा सातस्य बन्धः सातस्योदयः सात-साते सती, अथवा सातस्य बन्धः असातस्योदयः साता-ऽसाते सतीः एतौ द्वौ विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानकं यावत् सम्भवतः । ततः परतो बन्धाभावे असातस्योदयः साता-ऽसाते सती, अथवा सातस्योदयः साता-5साते सती; एतौ द्वौ विकल्पौ अयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्यते । चरमसमये तु असातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं 'क्षीणम् , यस्य त्वसातं द्विचरमसमये क्षीणं तस्यायं विकल्प:--सातस्योदयः सातस्य सत्ताः एतौ च द्वौ विकल्पावेकसामयिकौ । सर्वमङ्ख्यया च वेदनीयस्याष्टौ भङ्गाः ॥
तथा आयुषि सामान्येनैकं बन्धस्थानं चतुर्णामन्यतमत् , परस्परविरुद्धत्वेन युगपद् द्वित्रायुषां बन्धाभावात् । उदयस्थानमप्येकम् , तदपि चतुर्णामन्यतमत् युगपद् द्वित्रायुषां उदयाभावात । द्वे सत्तास्थाने, तद्यथा--द्वे एकं च । तत्रैकं चतुर्णामन्यतमत् यावदन्यत् परभवायुर्न बध्यते, परभवायुषि च बद्धे यावदन्यत्र परभवे नोत्पद्यते तावद् द्वे सती ।
सम्प्रति संवेध उच्यते-तत्रायुपम्तिस्रोऽवस्थाः, तद्यथा-परभवायुर्वन्धकालात् पूर्वावस्था परभवायुबन्धकालावस्था परभवायुबन्धोत्तरकालावस्था च । तत्र नैरयिकस्य परभवायुर्वन्धकालात् पूर्व नारकायुष उदयः नारकायुपः सत्ता, एष विकल्प आयेषु चतुर्यु गुणस्थानकेषु, शेषगुणस्थानकस्य नरकेप्वसम्भवात ; परभवायुर्वन्धकाले तिर्यगायुपो बन्धो नारकायुष उदयः नारक-तिर्यगायुषी सती, एष विकल्पो मिथ्यादृप्टेः सासादनस्य वा, द्वयोरेवाद्ययोगुणस्थानकयास्तिर्यगायुषो बन्धसम्भवात् : अथवा मनुष्यायुपो बन्धः नारकायुष उदयः मनुष्य-नारकायुषी सती, एष विकल्पो मिथ्यादृष्टः सासादनस्याविरतसम्यग्दृष्टेर्वा । बन्धोत्तर कालं नारकायुष उदयो नारक-तिर्यगायुषी सती, एष विकल्प आद्येषु चतुर्वपि गुणस्थानकेषु, तिर्यगायुक्न्धानन्तरं
१ त० छ० क्षीणं तस्यैवायं विकल्पः य० ॥ २ मुद्रि० ०कालं ना० ।।