SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ १८३ चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । ' निद्दा दुगस्स उदओ खीणगखवगे परिचज ॥ तथा चतुर्विधबन्धकेषु कियत्कालमपूर्वकरणेषु अनिवृत्तिबादर-सूक्ष्मसम्परायेषु चोपशमश्रेणिं प्रतीत्य चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्ता । क्षपकश्रेणिमधिकृत्य पुनरुदयश्चतुर्विध एव, कारणमत्र प्रागेवोक्तम् । केचित् पुनः क्षपकक्षीणमोहेष्वपि निद्रा-प्रचलयोरुदयमिच्छन्ति, तत् सत्कर्म-कर्मप्रकृत्यादिग्रन्थैः सह विरुध्यते इत्युपेक्ष्यते । यावच्च क्षपकश्रेण्यामपि स्त्यानर्द्धित्रिकं न क्षीयते तावत् सत्ता नवविधैव, स्त्यानचित्रिके तु क्षीणे षड्विधा तथा चाह-"चउवंधुदए छलंसा य" त्ति इह अंश इति सत्कर्माभिधीयते । यदाह चूर्णिकृत् अंस इति संतकम्मं भन्नई । चतुर्विध बन्धे चतुर्विध उदये अनिवृत्तिबादरसम्परायगुणस्थानकाद्धायाः सङ्खये येभ्यो भागेभ्यः परतः स्त्यानद्धित्रिके क्षीणे षड्विधा सत्ता । एप च विकल्पस्तावत् प्राप्यते यावत् सूक्ष्मसम्परायाद्धायाश्चरमसमयः, परतस्तु न प्राप्यते, बन्धाभावात् । तदेवं चतुर्विधवन्धकस्य त्रयो विकल्पाः, तद्यथा-चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्प उपशमश्रेण्यां क्षपकश्रेण्यां वा यावत् स्त्यानद्धित्रिकं न क्षीयते । चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एष उपशमश्रेण्याम् , क्षपकश्रेण्यां पञ्चविधोदयस्याभावात् तथा चतुर्विधो बन्धश्चतुविध उदयः पड्विधा सत्ता, एष च विकल्पः क्षपकश्रेण्यां स्त्यानचित्रिकक्षयानन्तरमवसेयः ।।८।। "उवरयवंधे" इत्यादि । 'उपरते' व्यवच्छिन्ने बन्धे चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता, एतौ च द्वौ विकल्पावुपशान्तमोहगुणस्थानके प्राप्येते । उपशमश्रेण्यां हि निद्राप्रचलयोरुदयः सम्भवति, स्त्यानचित्रिकं च न क्षयमुपगच्छति ततश्चतुर्विधः पञ्चविधो वा उदयो नवविधा च सत्ता प्राप्यते । तथा चतुर्विध उदयः षड्विधा सत्ता, एप विकल्पः क्षीणकषायस्य द्विचरमसमयं यावदवाप्यते । तथा चतुर्विध उदयश्चतुर्विधा सत्ता, एष विकल्पः क्षीणकपायस्य चरमसमये, निद्रा-प्रचलयोढेिचरमसमये एव शपितत्वात् । तदेवं दर्शनावरणे सर्वसङ्ख्यया एकादश विकल्पाः । यदि पुनः क्षपकक्षीणकषायेष्वपि निद्रा-प्रचलयोरुदय इष्यते तर्हि चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, बन्धाभावे पञ्चविध उदयः षड्विधा सत्तेत्येतो द्वो विकल्पावधिको प्राप्यते इति त्रयोदश ज्ञातव्याः ॥ सम्प्रति वेदनीया-ऽऽयुः-गोत्रेषु संवेधविकल्पोपदर्शनार्थमाह वेयणियाउयगोए, विभन्न १ निद्राद्विकस्य उदयः क्षीणकक्षपकौ परित्यज्य ॥२ अंश इति सत्कर्म मण्यते ॥ ३ मुद्रि० रायगुणस्थानकाद्धा०॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy