________________
१८२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथाः
दारभ्य क्षीणमोहगुणस्थानकद्विचरमसमयं यावदवसेयम् । चतुष्प्रकृत्यात्मकं त्वेकसामयिकम्, क्षीणकषायचरमसमयभावित्वादिति ।
उदयस्थाने पुनर्द्वे भवतः, तद्यथा - चतस्रः पञ्च च । तत्र चतस्रश्चक्षुर्दर्शनावरणाऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण केवलदर्शनावरणरूपाः । एतासां च समुदायो ध्रुवोदय इति एकं प्रकृतिस्थानम् एतासु च चतसृषु मध्ये निद्रादीनां पञ्चानां प्रकृतीनां मध्याद् अन्यतमस्यां प्रकृतौ प्रक्षिप्तायां पञ्च । न हि निद्रादयो द्वित्रादिका युगपदुदयमायान्ति किन्त्वेकस्मिन् काले एकैवान्यतमा काचित् । निद्रादयश्च ध्रुवोदया न भवन्ति, कालादिसापेक्षत्वात् । अत इदं पञ्च प्रकृत्यात्मकमुदयस्थानं कदाचिद् लभ्यते ।। ७ ।।
तदेवमुक्तानि दर्शनावरणस्य बन्ध-उदय सत्ता अधिकृत्य प्रकृतिस्थानानि । सम्प्रति संवेधमभिधित्सुराह-
य
11 4 11
बोयावरणे नवबंधगेसु चउ पंच उदय नव संता । छच बंधे चेवं, च बंधुदए छलंसा उवरयबंधे च पण, नवंस चउरुदय उच्च चउसंता । द्वितीयावरणं-दर्शनावरणं तस्मिन् द्वितीयावरणे 'नवबन्धकेषु' सकलदर्शनावरणोत्तरप्रकृतिबन्धकेषु मिथ्यादृष्टि सासादनेषु " चउ पंच उदय" त्ति उदयश्चतुर्विधः पञ्चविधो वा । तत्र चतुर्विधश्चक्षुदर्शनावरणा-ऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण केवलदर्शनावरणरूपः । स एव निद्रापञ्चकसत्कान्यतमप्रकृतिप्रक्षेपात् पञ्चविधः । सत्तामधिकृत्य पुनः प्रकृतिस्थानं 'नव' नवप्रक्रत्यात्मकम् । तदेवं नवविधबन्धकेषु द्वौ विकल्पौ दर्शितौ तद्यथा - नवविधो वन्धचतुर्विध उदय नवविधा सत्ता, एप विकल्पो निद्रोदयाभावेः निद्रोदये तु नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता । “छच्चउबंधे चेयं" ति पड्बन्धे चतुर्थन्धे च 'एवं' पूर्वोक्तप्रकारेण उदय-सत्तास्थानानि वेदितव्यानि । इदमुक्तं भवति ये षड्विधवन्धकाः सम्यग्मिथ्यादृष्टि अविरतसम्यग्दृष्टिदेश विरत- प्रमत्ता ऽप्रमत्ताः कियत्कालमपूर्वकरणाञ्च तेषां चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता । एतेन च द्वौ विकल्पौ दर्शितौ, तद्यथा - पड्विधो बन्धचतुर्विध उदयः नवविधा सत्ता, अथवा पड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ च द्वौ विकल्पौ क्षपकं मुक्त्वाऽन्यत्र सर्वत्रापि प्राप्येते । क्षपके त्वेक एव विकल्पः, तद्यथा- पड्विधो वन्धचतुर्विध उदयो नवविधा सत्ता | क्षपकस्य हि अत्यन्तविशुद्धत्वेन निद्रा प्रचलयोनंदियः सम्भवति । तदुक्तं सत्कर्मग्रन्थे
,
१ सं० १ ० ०नके द्विच० ॥ २ सं ० ०पाः । तासां च ।। ३ म० मुद्रि० इति कृत्वा एक प्रकृ० ॥ ४ सं० २ ० म० छ० व्यादिका ॥। ५ सं १ त० ०कल्पौ दर्शयति त० ॥ ६ सं० १ ० ० पकत्वे त्वे० ॥