________________
५-७] चन्द्रषिमहत्ताकृतं सप्ततिकाप्रकरणम् ।
१८१ इति समुच्चये उदय-सत्ते भवतः (ग्रन्थाग्रम्-५००) 'पञ्चैव' पञ्चप्रकृत्यात्मके एव, न त्वेकद्विव्यादिके, ध्रुवोदय-सत्ताकत्वात् । एष च विकल्पो द्वयोरप्युपशान्तमोहे क्षीणमोहे च प्राप्यते ॥६॥
सम्प्रति दर्शनावरणस्योत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह--
बंधस्स य संतस्स य, पगइहाणाइ निन्नि तुल्लाइं । उदयहाणाई दुवे, चउ पणगं दसणावरणे ॥७॥
दर्शनावरणाख्ये द्वितीये कर्मणि बन्धस्य सत्तायाश्च परस्परं 'तुल्यानि तुल्यस्वरूपाणि त्रीणि प्रकृतिस्थानानि भवन्ति । तद्यथा-नव षट् चतस्रः । तत्र सर्वप्रकृतिसमुदायो नव, ता एव नव स्त्यानद्धित्रिकहीनाः षट् , एताश्च षड् निद्रा प्रचलाहीनाश्चतस्रः । तत्र नवप्रकृत्यास्मकं बन्धस्थानं मिथ्यादृष्टौ सासादने वा । तच्चाभव्यानधिकृत्यानाद्यपर्यवसानम् , कदाचिदपि व्यवच्छेदाभावात् ; भव्यानधिकृत्यानादिसपर्यवसानम् , कालान्तरे व्यवच्छेदसम्भवात् , सम्यक्त्वात् प्रतिपत्य मिथ्यात्वं गतानां सादिसपर्यवसानम् ; तच्च जघन्यतोऽन्तमुहूर्त कालं यावत् , उत्कपतो देशोनापार्धपुद्गलपरावतम् । पटप्रकृत्यात्मकं बन्धस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्याऽपूर्वकरणस्य प्रथमं भागं यावत् । तच्च जघन्यतोऽन्तमुहूर्त कालम् , उत्कर्पतो द्वे पट्पष्टी सागरोपमाणाम् , सम्यक्त्वस्यापान्तराले सम्यग्मिथ्यात्वान्तरितस्येतावन्तं कालमवस्थानसम्भवात् तत ऊचं तु कश्चित् झपकश्रेणिं प्रतिपद्यते कश्चित् पुनर्मिथ्यात्वम् , मिथ्यात्वे च प्रतिपन्ने सति अवश्यं नवविधो बन्धः । चतुष्प्रकृत्यात्मकं तु बन्धस्थानमपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायं यावत् । तच्च जघन्येने समयम् , उत्कप्तोऽन्तमुहूर्तम् । एक समयं यावत् कथं प्राप्यते ? इति चेद् उच्यते-उपशमश्रेण्यामपूर्वकरणस्य द्वितीयभागप्रथमसमये चतुर्विधबन्धमारभ्याऽनन्तरसमये कश्चित् कालं करोति, कालं च कृत्वा दिवं गतः सन् अविरतो भवति, अविरतत्वे च षड्विधो बन्ध इत्येकसामयिकी चतुर्विधवन्धस्थानस्य स्थितिः ।
तथा नवप्रकृत्यात्मकं सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधा--अनाद्यपर्यवसितं अनादिसपर्यवसितं च । तत्रानाद्यपर्यवसिबममब्बानाम् , कदाचिदप्यव्यवच्छेदात् । अनादिसपर्यवमानं भव्यानाम् , कालान्तरे व्यवच्छेदान् । सादिसपर्यवसानं तु न भवति, नवप्रकृत्यात्मकसत्तास्थानव्यवच्छेदो हि क्षपकश्रेण्यां भवति, न च क्षपकोणीतः प्रतिपातो भवतीति कृत्वा । एतच्च सत्तास्थानम् उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावदवाप्यते, क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिबादरसम्परायगुणस्थानकस्य प्रथमभागम् । तथा षट्प्रकृत्यात्मकं सत्तास्थानं जघन्येनोत्कर्पण चान्तमुहूर्तप्रमाणम् , तच्चानिवृत्तिबादरसम्परायगुणस्थानकस्य द्वितीयभागा
१२० सं० १ त० छा० ०तीति । एत० ॥