________________
१५०
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा:
,
सम्यक्त्व सम्यग्मिथ्यात्वे न भवतः, यतो मिथ्यात्वपुद्गलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषाञ्चिदत्यन्तविशुद्धि मापादयति, अपरेषां त्वषद्विशुद्धिम् केचित् पुनर्भिध्यात्वरूपा एवावतिष्ठन्ते; तत्र येऽत्यन्तविशुद्धास्ते सम्यक्त्वव्यपदेशभाजः, ईषद्विशुद्धाः सम्यग्मिथ्यास्वव्यपदेशभाजः, शेषा मिथ्यात्वमिति । उक्तं च-
सम्यक्त्वगुणेन ततो, विशोधयति कर्म तद् समिध्यात्वम् । यद्वत् शकृत्प्रमुखैः, शोध्यन्ते कोद्रवा मदनाः ॥ यत् सर्वथाऽपि तत्र विशुद्धं तद् भवति कर्म मिश्रं तु दरविशुद्धं भवत्यशुद्धं च मिथ्यात्वम् ॥
सम्यक्त्वम्
उदये पुनः सम्यक्त्व- सम्यग्मिथ्यात्वे अपि भवतः । ततो बन्धे उत्तरप्रकृतीनां विंशं शतम्, उदये च द्वाविंशं शतम्, सत्तायां च बन्धनानि सङ्घातनामानि च पृथग् विवक्ष्यन्ते, वर्णादीनां चावान्तरभेदाः पृथग् गण्यन्ते, ततः सर्वसङ्ख्यया सत्तायामष्टचत्वारिंशं शतमुत्तरप्रकृती' नामिति ।। तदेवं कृता उत्तरप्रकृतीनां प्ररूपणा । सम्प्रति ज्ञानावरणीयस्य तत्तुल्यत्वादन्तरायस्य चोत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह-
नाणावरणंतराइए पंच I
बंधोदय संतंसा, बंधोवरमे वि तहा, उदसंता हुति पंचेव ॥ ६ ॥
ज्ञानावरणे अन्तराये च प्रत्येकं बन्ध- उदय सत्तारूपा अंशाः 'पञ्च' पञ्चप्रकृत्यात्मकाः । इदमुक्तं भवति - ज्ञानावरणे बन्धमुदयं सत्तां चाधिकृत्य सदैव पञ्च प्रकृतयो मतिज्ञानावरणश्रुतज्ञानावरणा-ऽवधिज्ञानावरण-मनः पर्यवज्ञानावरण- केवलज्ञानावरणरूपाः प्राप्यन्ते, न त्वेकद्विज्यादिकाः, ध्रुवबन्धादित्वात् । अन्तरायेऽपि बन्धमुदयं सत्तां चाधिकृत्य प्रत्येकं सदैव दानान्तराय - लाभान्तराय-भोगान्तराय-उपभोगान्तराय - वीर्यान्तरायरूपाः पञ्च प्रकृतयः प्राप्यन्ते, न त्वेकद्वित्र्यादिकाः, ध्रुवबन्धादित्वादेव । तथा च सति ज्ञानावरणेऽन्तरागे च बन्धादिषु प्रत्येकमेकं पञ्चप्रकृत्यात्मकं प्रकृतिस्थानमिति ।
सम्प्रति संवेध उच्यते- ज्ञानावरणस्य बन्धकाले पञ्चविधो बन्धः पञ्चविध उदयः पश्चविवा सत्ता, एवमन्तरायस्यापि । एष च विकल्पो द्वयोरपि सूक्ष्मसम्परायगुणस्थानकं यावदवगन्तव्यः । बन्धाभावे पुनर्ज्ञानावरणे अन्तराये च प्रत्येकं पञ्चविध उदयः पञ्चविधा सत्ता । तथा चाह - "बंधोवरमे वि" इत्यादि । 'बन्धोपरमेऽपि बन्धाभावेऽपि ज्ञानावरणा - ऽन्तराययोः ' तथा '
१ सं० ०नामवसेयम् |