________________
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
१०४ दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनाम । यदुदयवशाद् उच्छ्वास-निःश्वासलब्धिरुपजायते तद् उच्छ्वासनाम। यदुदयवशाद् जन्तुशरीराणि भानुमण्डलगत पृथिवीकायिकरूपाणि स्वरूपेणाऽनुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तद् आतपनाम । आतपनामोदयश्च वह्निशरीरे न भवति, सूत्रे प्रतिषेधात् । तत्रोष्णत्वमुष्णस्पर्शनामोदयात् , उत्कटलोहितवर्णनामोदयाच प्रकाशकत्वमिति। ___ तथा यदुदयवशाद् जन्तुशरीराणि अनुष्णप्रकाशरूपमुद्योतमातन्वन्ति यथा यति देवोत्तरक्रियचन्द्र-ग्रह-नक्षत्र-तारा-रत्न-औषधयः तद् उद्योतनाम । यदुदयवशाद् जन्तुशरीरेष्वङ्ग प्रत्यङ्गानां प्रतिनियतस्थानवतिता भवति तद् निर्माणनाम । यदुदयवशाद् अष्टमहाप्रातिहार्यप्रमुखाचतुस्त्रिंशदतिशयाः प्रादुर्भवन्ति तत् तीर्थकरनाम । इह पिण्डप्रकृतीनामवान्तरभेदगणने पञ्चपष्टिभवति, शेषाश्च प्रकृतयोऽष्टाविंशतिः, ततः सर्वसङ्ख्यया नाम उत्तरभेदास्त्रिनवतिः ॥
गोत्रस्योत्तरप्रकृती द्वे, तद्यथा-उच्चैर्गोत्रं च नीचैर्गोत्रं च । तत्र यदुदयादुत्तमजातिकुलप्राप्तिः सत्काराभ्युत्थानाञ्जलिप्रग्रहादिरूपपूजा'लाभसम्भवश्च तदुच्चेर्गात्रम् , तद्विपरीतं नीचेोत्रम् ।।
अन्तरायस्योत्तरप्रकृतयः पञ्च, तद्यथा-दानान्तरायं लाभान्तरायं भोगान्तरायम् उपभोगान्तरायं वीर्यान्तरायं च । तत्र यदुदयवशात् सति विभवे समागते च गुणवति पात्रे 'दत्तमस्मै बहुफलम्' इति जानन्नपि दातुनोत्सहते तद् दानान्तरायम् १ । यदुदयवशात् पुनः प्रसिद्धादपि दातुगृहे विद्यमानमपि देयमर्थजातं याश्चाकुशलो गुणवानपि याचको न लभते तद् लाभान्तरायम् २ । यदुदयात्त सत्यपि विशिष्टाहारादौ असति च प्रत्याख्यानपरिणामे केवलकार्पण्याशक्त्यादिकारणवशाद् नोत्सहते विशिष्टाहारादि भोक्तु तद् भोगान्तरायम् ३ एवमेवोपभोगान्तरायमपि । नवरं भोगोपभोगयोरयं विशेषः-सकृद् भुज्यत इति भोगः, पुनः पुनर्भुज्यत इत्युपभोगः ४ । उक्तं च--
सइ भुञ्जइ त्ति भोगो, सो पुण आहारपुप्फमाईओ।
उवभोगो उ पुणो पुण. उवभुज्जइ भवणविलयाई ।। (बृहत्कर्म० वि० गा० १६५) तथा यदुदयवशात् सत्यपि नीजि शरीरे यनोऽप्यल्पप्राणता भवति तद् वीर्यान्तरायम् ५ ॥
___ इह बन्धे उदये च बन्धनानि सङ्घातनामानि च स्वशरीरनामग्रहणेनैव गृहीतानि विवश्यन्ते, तद्यथा-औदारिकशरीरनामग्रहणेन औदारिकबन्धन-सङ्घातनाम्नी, वैक्रियशरीरनामग्रहणेन वैक्रियबन्धन-सङ्घातनाम्नी इत्यादि । वर्णादीनां चावान्तरभेदा न विवक्ष्यन्ते । तथा बन्धे
१ सं० १ त० म० लाभादिसं० ॥ २ सकृद् भुज्यत इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुनः पुनरुपभुज्यते भवनवनितादि ।।