________________
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथाः
नाभेरधस्तनभागरूपेण यथोक्तप्रमाणयुक्तेन वर्तत इति सादि, सर्वमपि हि शरीरं सादि ततः सादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः, ततो यत्र नाभेरधो यथोक्तप्रमाणयुक्तमुपरि च हीनं तत् सादिसंस्थानम्, तन्निबन्धनं नाम सादिनाम ३ । तथा यत्र शिरः-ग्रीवं हस्तपादादिकं च यथोक्तप्रमाणोपपन्न उर: - उदरादि च म 'डभं तत् कुब्जसंस्थानम्, तन्निबन्धनं नाम कुब्जनाम ४ | यत्र पुनरुरः - उदरादि यथोक्तप्रमाणोपेतं हस्तपादादिकं च हीनं तत् संस्थानं वामनम्, तन्निबन्धनं नाम वामननाम ५ । यत्र सर्वेऽप्यवयवा यथोक्तप्रमाणहीनास्तत् संस्थानं हुण्डम्, तन्निबन्धनं नाम हुण्डनाम ।
१७६
तथा वर्ण्यते-अलङ्कियते शरीरमनेनेति वर्णः, तन्निबन्धनं नाम वर्णनाम, तत् पञ्चधा, तद्यथा----शुक्लनाम कृष्णनाम नीलनाम हारिद्रनाम लोहितनाम । तत्र यदुदयाद् जन्तुशरीरेषु शुक्लो वर्णो भवति तत् शुक्लनाम । एवं शेषाण्यपि भावनीयानि ।
तथा "गन्ध अर्दने" गन्ध्यते - आम्रायते इति गन्धः, तन्निबन्धन' नाम गन्धनाम, तद् द्विधा -- सुरभिगन्धनाम दुरभिगन्धनाम । तत्र यदुदयात् शरीरेषु गन्धः सुरभिरुपजायते तत् सुरभिगन्धनाम, यदुदयात् पुनदुरभिगन्धो भवति तद् दुरभिगन्धनाम |
तथा रस्ते - आस्वाद्यते इति रसः, तन्निबन्धन' नाम रसनाम, तत् पञ्चधा, तद्यथा-तिक्तनाम कटुनाम कपायनाम अम्लनाम मधुरनाम । तत्र यदुदयाद् जन्तुशरीरेषु तिक्तो रसो भवति तत् तिक्तनाम | एवं शेषाण्यपि भावनीयानि ।
तथा स्पृश्यत इति स्पर्शः, तन्निबन्धनं नाम स्पर्शनाम, तदष्टधा, तद्यथा--मृदुनाम कर्कश - नाम गुरुनाम लघुनाम स्निग्धनाम रूक्षनाम शीतनाम उष्णनाम । तत्र यदुदयाद् जन्तुशरीरेषु मृदुः स्पर्शो भवति तद् मृदुस्पर्शनाम । एवं शेषाण्यपि भावनीयानि ।
तथा कूपर लाङ्गल- गोमूत्रिकाकाररूपेण यथाक्रमं द्वि- त्रि- चतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणि गमनं आनुपूर्वी, तन्निबन्धनं नाम आनुपूर्वीनाम, तत् चतुर्विधम्, तद्यथा - नरकानुपूर्वीनाम तिर्यगानुपूर्वीनाम मनुष्यानुपूर्वीनाम देवानुपूर्वीनाम |
,
तथा विहायसा गतिः - गमनं विहायोगतिः । ननु सर्वगतत्वाद् विहायसस्ततोऽन्यत्र गतिरेव न सम्भवतीति किमर्थं विहायसा विशेषणम् ? सत्यमेतत् किन्तु यदि गतिरित्येवोच्येत तर्हि नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात् ततस्तद्व्यवच्छेदार्थं विहायसा विशेपणम्, विहायसा गतिः न तु नारकत्वादिपर्याय परिणतिरूपा गतिः विहायोगतिः, तन्निबन्धनं
१ छा० ०डहं प्रमाणरहितं तत् संस्थानं कुब्ज० ॥। २ सं० १ त० म० ०पा विहायोग० ॥