________________
५]
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
१७७
नाम विहायोगतिनाम, तद् द्विविधम् - प्रशस्तविहायोगतिनाम अप्रशस्तविहायोगतिनाम । तत्र यदुदयाद् जन्तोः प्रशस्ता विहायोगतिर्भवति यथा हंसादीनां तत् प्रशस्तविहायोगतिनाम १ । यदुदयात् पुनरप्रशस्ता विहायोगतिर्भवति यथा खरादीनां तद् अप्रशस्तविहायोगतिनाम २ ।
एताश्च गत्यादयो विहायोगतिपर्यन्ताश्चतुर्दश प्रकृतयः शास्त्रान्तरे पिण्डप्रकृतय इति विश्रुताः, अनेकावान्तर भेदपिण्डात्मकाः प्रकृतयः पिण्डप्रकृतय इति व्युत्पत्तेः ।
तथा सन्ति-उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानाद् उद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तर मिति त्रसा::- द्वीन्द्रियादयः, तत्पर्यायपरिणतिहेतुर्नाम त्रसनाम । तद्विपरीतं स्थावरनाम, यदुदयाद् उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः पृथिवी - अप - तेजः - वायु-वनस्पतयः स्थावरा जायन्ते ।
तथा बादरनाम, यदुदयाद् जीवा बादरा भवन्ति, बादरत्वं च परिणाम विशेषः, यद्वशात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बहूनां समुदाये चक्षुर्ग्रहणं भवति । तद्विपरीतं सूक्ष्मनाम, यदुदयाद् न कदाचिदपि जन्तुशरीरस्य चतुर्ग्राह्यता भवति ।
पर्याप्तकनाम, यदुदयात् स्वयोग्यपर्याप्तिनिर्वर्तनसमर्थो भवति, पर्याप्तिः - आहारादिपुद्गलग्रहण - परिणमनहेतुरात्मनः शक्तिविशेष:, सा च पोढा, तद्यथा - आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिः उच्छ्वासपर्याप्तिः भाषापर्याप्तिः मनःपर्याप्तिश्च । तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारं रसा ऽसृग्-मांस-मेदःअस्थि मज्जा - शुक्रलक्षण सप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २ । यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३ । यया पुनरुच्छ्वासप्रायोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्य आलम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः ४ । यया तु भाषाप्रायोग्यवर्गणादलिकं गृहीत्वा भाषात्वेन परिणमय्य आलम्ब्य च मुञ्चति सा भाप पर्याप्तिः ५ | यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्य आलम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रियादीनां संज्ञिनां च चतुः पञ्च षट्सङ्ख्या भवन्ति । पर्याप्तकनामविपरीतमपर्याप्तकनाम, यदुदयात् स्वयोग्य पर्याप्तिपरिसमाप्तिसमर्थो न भवति ।
प्रत्येकनाम, यदुदयाद् एकैकस्य जन्तोरेकैकमौदारिकं वैक्रियं वा शरीरं भवति । तद्विपरीतं साधारणनाम, यदुदयाद् अनन्तानां जीवानामेकमौदारिकं शरीरं भवति ।
23
१ सं० १ त० म० ०षः, स च ॥