________________
५]
चन्द्र महत्कृतं सप्ततिकाप्रकरणम् ।
१७५
५ । केचित् पुनर्बन्धनस्य पञ्चदश मेदानाचक्षते, ते च पञ्चसङ्ग्रहादिग्रन्थतो वेदितव्याः ।
तथा सङ्घात्यन्ते- पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत् सङ्घातम्, तच्च तन्नाम च सङ्घातनाम, तच्च पञ्चधा, तद्यथा--- औदारिकसङ्घातनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम । तत्र यदुदयाद् औदारिकपुद्गला ये यत्र योग्यास्तान् तत्र सङ्घातयति, यथा----शिरोयोग्यान् शिरसि, पादयोग्यान् पादयोः, शेषाङ्गयोग्यान् शेषाङ्गषु तद् औदारिकसङ्घातनाम । एवं वैक्रियसङ्घातनामादिष्वपि भावनीयम् ।
तथा संहननं--अस्थिरचनाविशेषः, तच्चौदारिकशरीरे एव नान्येषु शरीरेषु तेषां अस्थिरहितत्वात् । तच्च षोढा, तद्यथा--- वज्रर्षभनाराचम् ऋषभनाराचं नाराचम् अर्धनाराचं कीलिका सेवार्तं च । तत्र वज्र ं --कीलिका, ऋषभः परिवेष्टनपट्टः, नाराचम् उभयतो मर्कटबन्धः । उक्तं च----
"रिसहो य होइ पट्टो, वज्जं पुण कीलिया मुणेयव्वा ।
उभओ मक्कडबंधो, नारायं तं वियाणाहि || (बृहत्कर्म ० वि० गा० १०९ ) ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं--वज्रनामकमस्थि यत्र भवति तद् वज्रर्षभनाराचम्, तन्निबन्धनं नाम भनाराच नाम ? | यत् पुनः कीलिकारहितं संहननं तद् ऋषभनाराचम्, तन्निबन्धनं नाम ऋषभनाराचनाम २ । यत्र पुनर्मर्कटबन्ध एव केवलो भवति न पुनः कीलिका ऋषभसंज्ञः पट्टश्च तद् नाराचम्, तन्निबन्धनं नाम नाराचनाम ३ । यत्र त्वेकपार्श्व ेन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवति तद् अर्धनाराचम्, तन्निबन्धनं नाम अर्धनाराचनाम ४ । यत्र त्वस्थीनि कीलिकामात्रविद्धान्येव भवन्ति तत् कीलिकासंहननम्, तन्निबन्धनं नाम कीलिकानाम ५ । यत्र तु परस्परं पर्यन्तसंस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते यत्र तत् सेवार्तम् तन्निबन्धनं नाम सेवार्तनाम ६ ।
तथा संस्थानम्--आकारविशेषः, तच्च पोढा, तद्यथा - समचतुरस्र न्यग्रोधपरिमण्डलं सादि वामनं कुब्जं हुण्डं चेति । तत्र समाः - - यथोक्तप्रमाणाश्चतस्रोऽस्रयः- चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत् समचतुरस्वम्, समामान्तोऽत्प्रत्ययः, समचतुरस्त्र संस्थाननिबन्धनं नाम समचतुरस्रनाम १ । तथा न्यग्रोभवत् परिमण्डलं यस्य तद् न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्णावयवोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णप्रमाणम्, अस्तु न तथा तद् न्यग्रोधपरिमण्डलम्, तन्निबन्धनं नाम न्यग्रोधपरिमण्डलनाम २ | तथा सह आदिना --
१ ऋषभश्च भवति पट्टो वज्र पुनः कीलिका ज्ञातव्या । उभयतो मर्कटबन्धो नाराचं तद् विजानीहि ॥ २ सं० छा० म० ०त्रबद्ध | ० ||३ छा० ०त्यमियति येन त० ॥ *