________________
१७४ .. मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः ___अत्र "सव्वेसि" इति सर्वेषाम्-औदारिकादीनां शरीराणां 'कारणभूतं' बीजभूतं कार्मणशरीरम् । न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुपि शेषशरीरप्रादुर्भावसम्भवः ।
इदं च कार्मणशरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं करणम् , तथाहि-कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहाय उत्पत्तिदेशमभिसर्पति । ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सङ्क्रामति तर्हि स गच्छन्नागच्छन् वा कस्माद् नोपलक्ष्यते ? उच्यते-कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् । आह च प्रज्ञाकरगुप्तोऽपि---
अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलक्ष्यते ।
निष्क्रामन् प्रविशन वापि, नाभावोऽनीक्षणादपि । तन्निबन्धनं नाम कार्मणनाम, यदुदयात् कर्मप्रायोग्यान पुद्गलानादाय कर्मरूपतया च परिणमय्य जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्ध'यति ५। तथा अङ्गान्यष्टौ शिरःप्रभृतीनि, तदुक्तम्--
सीसमुरोयर पिट्ठी, दो बाहू ऊरुया य अट्ठगा। ( बृहत्कर्म०वि०गा० ९१) अगुल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभूतानि अङ्गुलिपर्व-रेखादीनि अङ्गोपाङ्गानि । अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि अङ्गोपाङ्गानि च अङ्गोपाङ्गानि च अङ्गोपाङ्गानि, "स्यादावसङ्ख्य यः" (सिद्धहे० ३.१.११६) इत्येकशेषः, तन्निवन्धनं नाम अङ्गोपाङ्गनाम । तत् त्रिधा तद्यथा--- औदारिकाङ्गोपाङ्गनाम वेक्रियाङ्गोपाङ्गनाम आहारकाङ्गोपाङ्गनाम । तत्र यदुदयाद्
औदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् औदारिकाङ्गोपाङ्गनाम १, एवं वैक्रिया-ऽऽहारकाङ्गोपाङ्गनाम्नी अपि २-३ भावनीये । तैजस-कार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वात् नाङ्गोपाङ्गसम्भव इति न तन्निवन्धनमङ्गोपाङ्गनाम।
तथा बध्यतेऽनेनेति बन्धनम् , यदुदयाद् औदारिकादिपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परमन्यशरीरपुद्गलैश्च सह सम्बन्धः । तत् पञ्चधा, तद्यथा----औदारिकवन्धनं वैक्रियबन्धनम् आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनम् । तत्र यदुदयाद् औदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं तेजसादिशरीरपुद्गलैश्च सह सम्बन्धः तद् औदारिकबन्धनम् १ । एवं वैक्रियबन्धनम् २ आहारकबन्धनं ३ च भावनीयम् । यदुदयात् पुनस्तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं कार्मणशरीरपुद्गलैश्च सह सम्बन्धस्तत् तैजसबन्धनम् ४ । यदुदयात् कर्म पुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं सम्बन्धस्तत् कार्मणबन्धनम्
१ सं० १ त० म० यति तत् कार्मणशरीरनामेत्यर्थः ।। २ शीर्षमुरः उदरं पृष्ठिः द्वौ बाहू उरुको च अष्ट अङ्गानि ॥३ सं० छा० मुद्रि० ०न्धनं नाम ।।