________________
१७३
चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् ।। अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः तन्निमित्तं जातिनाम । तच्च पञ्चधा, तद्यथा-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनाम ।
तथा शीर्यत इति शरीरम् , तत् पञ्चधा-औदारिकं वैक्रियम् आहारकं तैजसं कार्मणं च । तत्र उदारं-प्रधानम् , प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं-सातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणम् , बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकम् , विनयादिपाठादिकण , तन्निबन्धनं नाम औदारिकनाम, यदुदयवशाद् औदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयति तद् औदारिकशरीरनामेत्यर्थः १ । एवं शेषशरीरनामस्वपि भावना कार्या । तथा विविधा क्रिया विक्रिया, तस्यां भवं वैक्रियम् , तथाहि-तदेकं भूत्वाऽनेकं भवति अनेकं भूत्वा एकम् , अणु भूत्वा महद्भवति महच्च भूत्वाऽणु, तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरम् , तथा अदृश्यं भूत्वा दृश्यं भवति दृश्यं भूत्वाऽदृश्यमित्यादि । तच्च द्विधा-औपपातिकं लब्धिप्रत्ययं च । तत्रौपपातिकं उपपातजन्मनिमित्तम् , तच्च देव-नारकाणाम् । लब्धिप्रत्ययं तिर्यङ्मनुष्याणाम् । वैक्रियनिबन्धनं नाम वैक्रियनाम २ । तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशाद् आहियते-निर्वय॑ते इत्याहारकम् , कृत् "बहुलम्" (सिद्धहे० ५-१-२) इति वचनात्, कर्मणि वुञ् यथा पादहारक इत्यादौ, तच वैक्रियापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकं वस्तुप्रतिबिम्बाधारभूतम् , तन्निबन्धनं नाम आहारकनाम ३ तथा तेजसा-तेजःपुद्गलैर्निवृत्तं तैजसम् , यद् भुक्ताहारपरिणमनहेतुः यद्वशाच्च विशिष्टतपोमाहात्म्यसमुत्थलब्धिविशेषस्य पुसस्तेजोलेश्याविनिर्गमः, तन्निबन्धनं नाम तैजसनाम ४ | तथा कर्मणो विकारः कार्मणम् , कर्मपरमाणव एवात्मप्रदेशैः सह क्षीर-नीरवदन्योऽन्यानुगताः सन्तः कार्मणं शरीरम् । तदुक्तं
कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिष्फन्न ।
सव्वेसि सरीराणं, कारणभूयं मुणेयव्वं ।। ( अनुयो० हा० टी० पत्र ८७ ) १ सं० सं १ त० ०त्मकं तन्नि० ॥२ कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ।।