________________
१७२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथाः
ते च नोकषाया नव, तद्यथा---- वेदत्रिकं हास्यादिषट्कं च । तत्र वेदत्रिकं -स्त्रीवेदः पुरुष-वेदो नपु ंसकवेदश्च । तत्र यदुदयात् स्त्रियाः पु'स्यभिलाषः पित्तोदये मधुराभिलाषवत् स स्त्रीवेदः १ । यदुदयाच्च पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स पुरुषवेद: २ । यदुदयात् पुनः स्त्रीपुंसयोरुपर्यभिलापः पित्तश्लेष्मोदये मज्जिकाभिलाषवत् स नपु ंसकवेदः ३ । हास्यादिषट्कं हास्य-रति-अरति-शोक-भय- जुगुप्सारूपम् । तत्र यदुदयात् सनिमित्तमनिमित्तं वा हसति तद् हास्यमोहनीयम् १ | यदुदयाद् बाह्याभ्यन्तरेषु वस्तुषु प्रमोदमाधत्ते तद् रतिमोहनीयम् २ | यदुदयात् पुनर्बाह्याभ्यन्तरेष्वेव वस्तुष्वप्रीतिरुपजायते तद् अरतिमोहनीयम् ३ । तथा यदुदयवशात् प्रियविप्रयोगे सोरस्ताङमाक्रन्दति परिदेवते दीर्घं च निःश्वसिति भूपीठे च लुठति तत् शोकमोहनीयम्४ | यदुदयात् सनिमित्तमनिमित्तं वा तथारूपस्वसङ्कल्पतो बिभेति तद् भयमोहनीयम् ५। यदुदयवशात् पुनर्जन्तोः शुभाशुभवस्तुविषयं व्यलीकमुपजायते तद् जुगुप्सामोहनीयम् ६ ॥
आयुपश्चतस्र उत्तरप्रकृतयः, तद्यथा - नरकायुस्तिर्यगायुर्मनुष्यायुर्देवायुश्च ॥
नाम्नोद्विचत्वारिंशदुत्तरप्रकृतयः, तद्यथा--गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम सङ्घातनाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनाम सनाम स्थावरनाम बादरनाम सूक्ष्मनाम पर्याप्तनाम अपर्याप्तनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम सुस्वरनाम दुःस्वरनाम सुभगनाम दुर्भगनाम आदेयनाम अनादेयनाम यशः कीर्तिनाम अयशः कीर्तिनाम अगुरुलघुनाम उपघातनाम पराघातनाम उच्छ्वासनांम आतपनाम उद्योतनाम निर्माणनाम तीर्थकरनाम चेति ।
तत्र गम्यते- तथाविधकर्मसचिवैर्जीवैः प्राप्यत इति गतिः - नारकत्वादिपर्यायपरिणतिः । सा तु, तद्यथा - नरकगतिः तिर्यग्गतिः मनुष्यगतिः देवगतिश्व । तद्विपाकवेद्या कर्मप्रकृतिरपि गतिश्चतुर्धा ।
तथा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमान परिणतिलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाग् यत् सामान्यं सा जातिः, तद्विपाकवेद्या कर्मप्रकृतिरपि जातिः । इदमत्र तात्पर्य - द्रव्यरूपमिन्द्रियमङ्गोपाङ्गेन्द्रियपर्याप्तिनामकर्मसामर्थ्यात् सिद्धम्, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशम सामर्थ्यात् " क्षायोपशमिकानीन्द्रियाणि" इति वचनात् । यत् पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूप समानपरिणतिलक्षणं सामान्यं तदव्यभिचारसाध्यत्वाद् जातिनामसाध्यम् । उक्तं च
१ सं० सं० १म० त० ०मान्यं तदनन्यसाध्य० ॥