________________
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । यदुदयाद् जिनप्रणीततत्त्वाश्रद्धानं तद् मिथ्यात्वम् १ । यदुदयात् पुनर्जिनप्रणीतं तत्त्वं न सम्यक् श्रद्धत्ते नापि निन्दति, मतिदौर्बल्यादिना सम्यगसम्यग वा एकान्तेन निश्चयाकरणतः सम्यक्त्रद्धानकान्तविप्रतिपत्त्ययोगात् तत् सम्यग्मिथ्यात्वम् २ । उक्तं च शतकबृहच्चूर्णी
___ 'जहा नालिकेरदीववासिस्स अइखुहाइयस्स वि पुरिसस्स एन्थं ओयणाइए अणेगविहे
ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्मामिच्छदिद्विस्स वि जीवादिपयत्थाणं उवरिं न रुई न य निंदा इत्यादि । यदुदयात् पुनः सम्यग् जिनप्रणीतं तत्त्वं श्रद्धत्ते तत् सम्यक्त्वम् ३ । चारित्रमोहनीयं पुनर्द्विधा, तद्यथा---कषाया नोकषायाश्च । तत्र कष्यन्ते हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः--संसारः, तमयन्ते--गच्छन्त्येभिर्जन्तव इति कषायाः-क्रोध-मान-माया-लोभाः, ते च प्रत्येकमनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनभेदाचतुर्विधाः तत्रा नन्तं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुवन्धिनः । [उक्तं च----
यस्मादनन्तं संसारमनुबध्नन्ति देहिनाम् । ततोऽनन्तानुबन्धीति, संज्ञाऽऽद्येषु निवेशिता ।।] तथा न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात् तेऽप्रत्याख्यानाः । उक्तं च----
नाल्पमप्युत्सहेद् येषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो द्वितीयेषु निवेशिता ।। तथा प्रत्याख्यान--सर्वविरतिरूपं आवृण्वन्तीति प्रत्याख्यानावरणाः, कृत् "बहुलं" (सिद्धहे. ५-१-२ ) इति वचनात् कर्तर्यनट् , सर्वविरतिविघातिनो देशविरतिनिबन्धना इत्यर्थः । उक्तं च--
सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥ तथा परीषहोपसर्गोपनिपाते सति चारित्रिणमपि सम्-ईषद् ज्वलयन्तीति संज्वलनाः। [ उक्तं च--
परीषहोपसर्गोपनिपाते यतिमप्यमी । समीषज्ज्वलयन्त्येव, तेन संज्वलनाः स्मृताः ।।] चत्वारश्चतुगुणिताः षोडश भवन्तीति कृत्वा षोडश कषायाः ।
तथा कषायसहचारिणो. नोकषायाः । नोशब्दोऽत्र सहचारवाची । कषायसहचारित्वं च कषायैः सह सदा वर्तनात् कषायोद्दीपनाद्वा । उक्तं च--
क पायसहवर्तित्वात् , कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ।। १ यथा नालिकेरद्वीपवासिनोऽतिक्षुधादितस्यापि पुरुषस्य अत्र ओदनादिकेऽनेकविधे ढौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः, एवं सम्य. ग्मिथ्यादृष्टेरपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा ।।
२ सं० सं० १ त० ० नन्तसंसा० ॥ ३ सं० १ त० म० षायैः सह ।। ४ मुद्रिः षायैः सह ।।