________________
मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[गाथाः उपजायते सा स्वापावस्था निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रा, कारणे कार्योपचारात् १ । तथा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वाद् मध्यपदलोपी समासः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटीभूतत्वाद् बहुभिर्घोलनाप्रकारैः प्रबोध उपजायते, अतः सुखप्रबोधहेतुनिद्रातोऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा २। तथा उपविष्ट ऊर्ध्वस्थितो वा प्रचलति-विघूर्णते यस्यां स्वापावस्थायां सा प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला ३ । तथा प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, अत्रापि मध्यपदलोपी समासः, एषा हि चक्रमणमपि कुर्वत उपतिष्ठते, ततः स्थानस्थितस्वप्तृभवप्रचलापेक्षया अस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला ४ । तथा स्त्याना-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपा यस्यां स्वापावस्थायां सा स्त्यानर्द्धिः, तद्भावे हि उत्कर्षतः प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिर्भवति, श्रूयते चैतत् कथानकमागम___ क्वचित् प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानर्द्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततः स तस्मिन् बद्धाभिनिवेशो रजन्यां स्त्यानद्धयु दये वर्तमानः समुत्थाय तद्दन्तयुगलमुत्पाव्य स्वोपाश्रयद्वारि च प्रक्षिप्य पुनः सुप्तवान् इत्यादि।
तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानद्धिः ५ । तथा चक्षुषा दर्शनं चक्षदर्शनम् , तस्यावरणं चक्षदर्शनावरणम् ६ । अचक्षुषा-चक्षुर्वर्जशेषेन्द्रिय-मनोभिर्दर्शनमचक्षुर्दर्शनम् , तस्यावरणमचक्षुर्दर्शनावरणम् ७ । अवधिरेव दर्शन--रूपिद्रव्यसामान्यग्रहणमवधिदर्शनम् , तस्यावरणमवधिदर्शनावरणम् ८ । केवलमेव-सकलजगद्भाविवस्तुस्तोमसामान्यग्रहणरूपं दर्शनं केवलदर्शनम् , तस्यावरणं केवलदर्शनावरणम् ९ । अत्र निंद्रापञ्चकं प्राप्ताया दर्शनलब्धेरुपघातकृत् , चक्षुर्दर्शना. वरणादिचतुष्टयं तु मूलत एव दर्शनलब्धिमुपहन्ति । आह च गन्धहस्ती
निद्रादयः समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तु उद्ग• मोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धिमिति ॥
(तत्त्वा० अ०८ सू०८ भाष्यटी० भाग०२ पत्र१३५)॥ वेदनीयस्य द्वे उत्तरप्रकृती, तद्यथा-सातवेदनीयवसातवेदनीयं च। तत्र सात--सुखं तद्रपेण यद् वेद्यते तत् सातवेदनीयम् १ । असातं--दुःखं बद्रूपेण यद् वेद्यते तद् असातवेदनीयम् २ ॥
मोहनीयस्योत्तरप्रकृतयोऽष्टाविंशतिः । मोहनीयं हि द्विधा, तद्यथा---दर्शनमोहनीयं चारित्रमोहनीयं च । दर्शनमोहनीयमपि विधा, तद्यथा----मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वं च । तत्र
१ सं १ त० म० ०ष्टयं उद्गमोच्छेदित्वात् समूलघातं दर्श० ॥