________________
चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् । उत्तरप्रकृतयश्चेमाः, तद्यथा-मतिज्ञानावरणं श्र तज्ञानावरणम् अवधिज्ञानावरणं मनःपर्यवज्ञानावरणं केवलज्ञानावरणम् , एताश्च पश्चापि ज्ञानावरणस्योत्तरप्रकृतयः। “मन ज्ञाने" मननं मतिः, यद्वा मन्यते इन्द्रिय-मनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रिय-मनोनिमित्तोऽवगमविशेषः, मतिश्च सा ज्ञानं च मतिज्ञानं तस्यावरणं मतिज्ञानावरणम् १ । श्रवणं-श्रुतं अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः, "एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थम्' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः'शब्दार्थपर्यालोचनानुसारी इन्द्रिय मनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रु तज्ञानं तस्यावरणं श्रुतज्ञानावरणम् २ । तथा अवशब्दोऽधःशब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेति अवधिः, यद्वा अवधिः मर्यादा, रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमपि अवधिः, अवधिश्च तद् ज्ञानं च अवधिज्ञानं तस्यावरणं अवधिज्ञानावरणम् ३ । तथा परिः-सर्वतोभावे, अवनं अवः, तुदादिभ्योऽनक्कावित्यधिकारे अकितौ चेत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवश्च स ज्ञानं च मनःपर्यवज्ञानम् , इदं चार्धतृतीयद्वीपसमुद्रान्तवर्तिसंज्ञिमनोगतद्रव्यालम्बनमवसेयम् , मनःपर्यायज्ञानमित्येवमप्येतदुच्यते, तत्र मनसः पर्यायाः-वाद्यवस्त्वालोचनप्रकारा धर्मा मनःपर्यायाः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् , तस्यावरणं मनःपर्यायज्ञानावरणं मनःपर्यवज्ञानावरणं वा ४ । तथा केवलम्-एकं मत्यादिज्ञाननिरपेक्षत्वात् "नम्मि उ छाउमथिए नाणे" (आव० नि० गा० ५३६) इति वचनात् , शुद्धं वा केवलं तदावरणमलकलङ्कापगमात् , सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वात् , केवलं च तद् ज्ञानं च केवलज्ञानम् , तस्यावरणं केवलज्ञानावरणम् ५।।
दर्शनावरणस्य नवोत्तरप्रकृतयः, तद्यथा-निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचला. प्रचला ४ स्त्यानद्धिः ५ चक्षुर्दर्शनावरणम् ६ अचक्षुर्दर्शनावरणम् ७ अवधिदर्शनावरणं ८ केवलदर्शनावरणं च ९ । तत्र "द्रा कुत्सायां गतौ" नितरां द्राति-कुत्सितत्वम् अविस्पष्टत्वं गच्छति चैतन्यं यस्यां सा निद्रा, भिदादित्वादङ्, यस्यां नखच्छोटिकामात्रेण स्वप्तुः प्रबोध
श्रीमद्भिर्मलयगिरिभिरष्टकर्मोत्तरप्रकृतीनां विवेचनं कृतमस्ति तद् यद्यपि उपर्युक्तगाथानुसारि दृश्यते तथापि तद्विहितान्यगाथाव्याख्यानशैल्या अस्यामदर्शनात् प्रसङ्गतः कृतमिति प्रतिभाति । अतः सम्भाव्यते केनापि विदुषा अष्टकर्मोत्तरप्रकतिनिबद्धं गाथासूत्रं प्रक्षिप्तमिति ।। १ सं० १ त० म०°मशब्दा॥ २ सं०१ त० म० परि सर्व ॥ ३ त० छा० °वश्व तद् ज्ञा ॥ ४ नष्टे तु छाद्मस्थिके ज्ञाने । 22