SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ १६६ ] मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं गाथाः प्रमाणमिति । घातिकर्मचतुष्टय क्षये च चतसृणां सत्ता, सा च जघन्येनान्तमुहूर्तप्रमाणा, उत्कर्षण पुनर्देशोनपूर्वकोटिमाना । कृता सत्तामधिकृत्य प्रकृतिस्थानप्ररूपणा । सम्प्रति कस्यां प्रकृतौ सत्यां कति प्रकृतिस्थानानि सत्तामधिकृत्य प्राप्यन्ते ? इति निरूप्यते-मोहनीये सत्यष्टानामपि सत्ता, ज्ञानावरणदर्शनावरणा-ऽन्तरायाणां मत्तायां अष्टानां सप्तानां वा सत्ता । तत्राष्टानामुपशान्तमोहगुणस्थानकं यावत् , मोहनीये क्षीणे सप्तानां, सा च क्षीणमोहगुणस्थानके । वेदनीया-ऽऽयुः-नाम-गोत्राणां सत्तायामष्टानां सप्तानां चतसृणां वा सत्ता । तत्राष्टानां सप्तानां च भावना प्रागिव, चतसृणां सत्ता वेदनीयादीनामेव, सा च सयोगिकेवलिगुणस्थानके अयोगिकेवलिगुणस्थानके च द्रष्टव्या ॥२॥ सम्प्रति बन्ध-उदय-सत्ताप्रकृतिस्थानानां परस्परं संवेधप्ररूपणार्थमाह अट्ठविहसत्तछब्बंधगेसु अव उदयसंताई । एगविहे तिविगप्पो, एगविगप्पो अबंधम्मि । ३।। अष्टविधवन्धक-सप्तविधबन्धक-पड्विधबन्धकेषु प्रत्येकमुदये सत्तायां चाष्टो कर्माणि प्राप्यन्ते । कथम् ? इति चेद् उच्यते--इहाष्टविधवन्धका अप्रमत्तान्ताः, सप्तविधवन्धका अनिवृत्तिबादरसम्परायपर्यवसानाः, षड्विधबन्धकाश्च सूक्ष्मसम्परायाः, एते च सर्वेऽपि सरागाः । सरागत्वं च मोहनीयोदयाद् उपजायते, उदये च सत्यवश्यं सत्ता, ततो मोहनीयोदये सत्तासम्भवाद् अष्टविध-सप्तविध-पड्विधवन्धकेष्ववश्यमुदये सत्तायां चाष्टो प्राप्यन्ते । एतेन च त्रयो भङ्गा दर्शिताः, तद्यथा---अष्टविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता । एष विकल्प आयुर्वन्धकाले, एष च मिथ्यादृष्ट्यादीनामप्रमत्तान्तानामवसेयो न शेषाणाम् , आयुर्वन्धासम्भवात् । तथा सप्तविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्प आयुर्वन्धाभावे, एष च मिथ्यादृष्टयादीनामनिवृत्तिबादरसम्परायान्तानामवसेयः । तथा पविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्पः सूक्ष्मसम्परायाणाम् । “एगविहे तिविगप्पो"त्ति 'एकविधे' एकप्रकारे बन्धे एकस्मिन् केवले वेदनीये बध्यमाने इत्यर्थः, 'त्रिविकल्पः' इति समाहारद्विगुत्वेऽप्याफ्त्वात् पुस्त्वनिर्देशः, त्रयो विकल्पा भवन्तीत्यर्थः । तद्यथा-एकविधो बन्धः सप्तविध उदयोऽष्टविधा सत्ता, एप विकल्प उपशान्तमोहगुणस्थानके प्राप्यते, तत्र हि मोहनीयस्योदयो न विद्यते. सत्ता पुनरस्ति । तथा एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, एष विकल्पः क्षीणमोहगुणस्थानके प्राप्यते, तत्र हि मोहनीयस्य निःशेषतोऽपगमात् । तथा एकविधो बन्धश्चतुर्विध उदयश्च ५ त० छा० मुद्रि० क्षये चत' ॥ २ सं० त० दयसत्ता ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy