________________
२-४ ]
चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् ।
तुर्विधा सत्ता, एष पुनर्विकल्पः सयोगिकेवलिगुणस्थानके, तत्र धातिकर्मणाम' नवयवशोऽपगमात् चतसृणां चाघातिप्रकृतीनामुदये सत्तायां च प्राप्यमाणत्वात् । "एगविगप्पो अबंधम्मि" त्ति 'अबन्धे' बन्धाभावे एक एव विकल्पः, तद्यथा - चतुर्विध उदयश्चतुर्विधा सत्ता, एष चायोगिकेवल गुणस्थान के प्राप्यते, तत्र हि योगाभावाद् बन्धो न भवति, उदय-सत्ते चाघातिकर्मणां भवतः ॥ ३ ॥
१६७
तदेवं मूलप्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेधे सप्त विकल्पा उक्ताः । सम्प्रति एतानेव जीवस्थानेषु चिन्तयन्नाह-
सत्तट्ठबंधअट्टुदयसंत तेरससु जीवठाणेसु 1
एगम्मि पंच भंगा, दो भंगा हुति केवलिणो ॥ ४ ॥
इह जीवस्थानानि चतुर्दश, तद्यथा - अपर्याप्तसूक्ष्मै केन्द्रियः १ पर्याप्तसूक्ष्मै केन्द्रियः २ अपर्याप्तबादरै केन्द्रियः ३ पर्याप्तबादरै केन्द्रियः ४ अपर्याप्तद्वीन्द्रियः ५ पर्याप्तद्वीन्द्रियः ६ अपर्याप्तत्रीन्द्रियः ७ पर्याप्तत्रीन्द्रियः- अपर्याप्तचतुरिन्द्रियः ९ पर्याप्तचतुरिन्द्रियः १० अपर्याप्ता संज्ञिपञ्चेन्द्रियः ११ पर्याप्तासंज्ञिपञ्चेन्द्रियः १२ अपर्याप्त संज्ञिपञ्चेन्द्रियः १३ पर्याप्तसंज्ञिपञ्चेन्द्रियः १४ इति । एतानि च सत्रपञ्चं षडशीतिक वृत्तौ व्याख्यातानीति नेह भूयो व्याख्यायन्ते ।
तत्र त्रयोदशसु आद्येषु जीवस्थानेषु प्रत्येकं द्वौ द्वौ विकल्पौ भवतः, तद्यथा--सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्वन्धकालं मुक्त्वा शेषकालं सर्वदैव लभ्यते; अष्टविधो चन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्वन्धकाले, एष चान्तमौहूर्तिकः, आयुर्बंन्धकालस्य जघन्येनोत्कर्षेण चान्तर्मुहूर्तप्रमाणत्वात् । "एगम्मि पंच भंग " त्ति 'एकस्मिन् 'पर्याप्रसंज्ञिपञ्चेन्द्रियलक्षणे पञ्च भङ्गा भवन्ति । तत्रादिमौ द्वौ भङ्गौ प्रागिव भावनीयौ, त्रयस्तु शेषा इमे -- षड्विधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्पः सूक्ष्मसम्परायस्य उपशमण्यां क्षपकण्यां वा वर्तमानस्य वेदितव्यः, तथा एकविधो बन्धः सप्तविध उदयः अष्टविधा सत्ता, एष विकल्प उपशान्तमोहगुणस्थान के प्राप्यतेः तथा एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, एष च क्षीणमोहगुणस्थानके । तथा द्वौ भङ्गौ भवतः केवलिनः, तद्यथा - एकविधो बन्धश्वतुर्विध उदयश्चतुर्विधा सत्ता, एष विकल्पः सयोगिकेवलिनः बन्धाभावे चतुर्विध उदयचतुर्विधा सत्ता, एष विकल्पोऽयोगिकेवलिनः । इह केवलिग्रहणं संज्ञिव्यवच्छेदार्थम्, द्वौ भङ्गौ भवतः केवलिनो न तु संज्ञिन इत्यर्थः । अत एव च केवलिग्रहणादिदमवसीयते केवली मनोविज्ञानरहितत्वात् संज्ञी न भवतीति || ४ ||
१ सं० छा० नके प्राप्यते तत्र ।। २ सामस्त्येनेत्यर्थः ॥