________________
१६५
चन्द्रपिमहत्तरकृतं सप्रतिकाप्रकरणम् सप्त षड् एका च । तत्राष्टौ सप्त षट् च प्रागिव । एका तु सैव वेदनीयरूपा प्रकृतिः, सा चोपशान्तमोहगुणस्थानकादौ प्राप्यते । उक्तं च
'आउम्मि अट्ट मोहेऽटु सत्त एक्कं च छाइ वा तइए ।
बज्झतयम्मि बझंति सेसएसु छ सत्तऽ? ।। (पञ्चसं० गा०८३८) सम्प्रति उदयमाश्रित्य प्रकृतिस्थानप्ररूपणा क्रियते--उदयं प्रति त्रीणि प्रकृतिस्थानानि, तद्यथा-अष्टौ सप्त चतस्रः । तत्र सर्वप्रकृतिसमुदायोऽष्टौ, तासां चोदयोऽभव्यानधिकृत्य अनाद्यपर्यवसितः, भव्यानधिकृत्यानादिसपर्यवसानः, उपशान्तमोहगुणस्थानकात् प्रतिपतितानधिकृत्य पुनः सादिसपर्यवसानः, स च जघन्येनान्तमुहूर्तप्रमाणः, उपशमश्रेणीतः प्रतिपतितस्य पुनरप्यन्तमुहूर्तेन कस्यापि उपशमश्रोणिप्रतिपत्तेः, उत्कर्षेण तु देशोनापार्धपुदलपरावर्तः। तथा ता एवाष्टो मोहनीयवर्जाः सप्त, तासामुदयो जघन्येनैकं समयम् , तथाहि-सप्तानामुक्तस्वरूपाणां प्रकृतीनामुदय उपशान्तमोहे क्षीणमोहे वा प्राप्यते, तत्र कश्चिद् उपशान्तमोहगुणस्थानके एक समयं स्थित्वा द्वितीये समये भवक्षयेण दिवं गच्छन् अविरतो भवति, अविरतत्वे चावश्यमष्टानां प्रकतीनामुदयः, ततः सप्तानामुदयो जघन्येनैकं समयं यावत् प्राप्यते । उत्कर्षेण त्वन्तमुहूर्तम् , उपशान्तमोहगुणस्थानकस्य क्षीणमोहगुणस्थानकस्य वा सप्तोदयहेतोरान्तमौहूर्तिकत्वात् तथा घातिकर्मवर्जाश्चतस्रः प्रकृतयः, तासामुदयो जयन्येनान्तमौहूर्तिकः, उत्कर्षेण तु देशोनपूर्वकोटिप्रमाणः ।
तदेवं कृता उदयमधिकृत्य प्रकृतिस्थानप्ररूपणा । सम्प्रति कस्याः प्रकृतेरुदये कति प्रकृतिस्थानान्युदयमाश्रित्य प्राप्यन्ते ? इति निरूप्यते-तत्र मोहनीयस्योदयेऽष्टानामप्युदयः, मोहनीयवर्जानां त्रयाणां घातिकर्मणामुदये अष्टानां सप्तानां वा । तत्राष्टानां सूक्ष्मसम्परायगुणस्थानकं यावत् , सप्तानामुफ्शान्तमोहे क्षीणमोहे वा, वेदनीया-ऽऽयुः-नाम-गोत्राणामुदयेऽष्टानां सप्तानां चतसृणां वा उदयः । तत्राष्टानां सूक्ष्मसम्परायं यावत् , सप्तानामुपशान्तमोहे क्षीणमोहे वा, चतसृणामेतासामेव वेदनीयादीनां सयोगिकेवलिनि अयोगिकेवलिनि च ।
सम्प्रति सत्तामधिकृत्य प्रकृतिस्थानतरूपणा क्रियते-सत्तां प्रति त्रीणि प्रकृतिस्थानानि । तद्यथा-अष्टौ सप्त चतस्रः । तत्र सर्वप्रकृतिसमुदायोऽष्टौ, एतासां चाष्टानां सत्ता अभव्यानधिकृत्य अनाद्यपर्यवसाना, भव्यानधिकृत्य अनादिसपर्यवसाना । तथा मोहनीये क्षीणे सप्तानां सत्ता,सा च जघन्योत्कर्षणान्तमुहूर्तप्रमाणा, सा हि क्षीणमोहे, क्षीणमोहगुणस्थानकंचान्तमुहूर्त
१ आयुषि अष्टौ मोहेऽष्टौ सप्तकं च षडादयो वा तृतीये । बध्यमाने बध्यन्ते शेषेषु षट् सप्ताष्टौ ॥ २ सं० १ मुद्रि० सा चाज ॥