________________
१६४ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथा बन्धका स्वकृतकर्मावाप्तनरकादिकुगतिनिष्क्रमितुमनसो जन्तोरित्यायुः, उभयत्रापि औणादिको 'णुस् प्रत्ययः ५ । तथा नामयति-गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम ६ । तथा गूयते-शब्द्यते उच्चावचैः शब्देरात्मा यस्मात् तद् गोत्रम् ७ । तथा जीवं दानादिकं चान्तरा एति न जीवस्य दानादिकं कतु ददातीत्यन्तरायम् ८ । एता मूलप्रकृतयः ।
एतासु प्रथमतो बन्ध उदय-सत्ता अधिकृत्य प्रकृतिस्थानप्ररूपणा क्रियते, प्रकृतिस्थानेषु हि प्रथमं प्ररूपितेषु सत्सु तदाश्रितः संवेधः प्ररूप्यमाणः सुखेनैवावगन्तु शक्यते । तत्र मूलप्रकतीनामुक्तस्वरूपाणां वन्धं प्रतीत्य चत्वारि प्रकृतिस्थानानि । तद्यथा---अष्टौ सप्त षड़ एका च । तत्र सर्वप्रकृतिसमुदायोऽष्टी, एतासां च 'बन्धो जघन्योत्कर्षेणान्तमुहर्तप्रमाणः, आयुषि हि वध्यमानेऽष्टानां प्रकृतीनां बन्धः प्राप्यते, आयुषश्च बन्धोऽन्तमुहूतमेव कालं भवति न ततोऽप्यधिकम् । तथा ता एवाष्टावायुर्वर्जाः सप्त, एतासां च बन्धो जघन्येनान्तमुहूर्त यावद् , उत्कर्षेण च त्रयस्त्रिंशत्सागरोपमाणि षण्मासोनानि अन्तमुहूर्तानपूर्वकोटित्रिभागाभ्यधिकानि । तथा ता एवाष्टावायुः मोहनीयवर्जाः षट् , एतासां च बन्धो जघन्येनैकं सगयम् , तथाहि-एतासामुक्तरूपाणां षण्णां प्रकृतीनां बन्धः सूक्ष्मसम्पराये, स च उपशमश्रण्यां कश्चिदेकं समयं भूत्वा द्वितीये समये भवक्षयेण दिवं गतः सन् अविरतो भवति, अविरतत्वे चावश्यं सप्तप्रकृतीनां वन्ध इति पण्णां बन्धोजघन्येनैकं समयं यावत् , उत्कर्षण त्वन्तमुहूर्तम् , सूक्ष्मसम्परायगुणस्थानकस्यान्तमुहूर्तप्रमाणत्वात् । तथा सप्तानां प्रकृतीनां बन्धव्यवच्छेदे एकस्या वेदनीयरूपायाः प्रकृतेर्वन्धः, स च जघन्येनैकं समयम् , एकसमयता चोपशमश्रेण्यामुपशान्तमोहगुणस्थाने प्रागुक्तप्रकारेण भावनीया, उत्कर्षेण पुनर्देशोनां पूर्वकोटिं यावत् ।
स चोत्कर्षतः कस्य वेदितव्यः? इति चेद् उच्यते-यो गर्भवासे माससप्तकमुषित्वाऽनन्तरं शीघ्रमेव योनिनिष्क्रमणजन्मना जातो वर्षाष्ट काचोपरि संयमं प्रतिपमः, प्रतिपत्यनन्तरं च क्षपकश्रेणिमारुह्योत्पादितकेवलज्ञानदर्शनः, तस्य सयोगिकेवलिनो वेदितव्यः ।
___ तदेवं बन्धमाश्रित्य प्रकृतिस्थानप्ररूपणा कृता । सम्प्रति कस्यां प्रकृतौ बध्यमानायां कति प्रकृतिस्थानानि बन्धमाश्रित्य प्राप्यन्ते ? इति निरूप्यते-तत्रायुषि बध्यमानेऽष्टावपि प्रकृतयो नियमेन बध्यन्ते । मोहनीये तु वध्यमानेऽष्टौ सप्त वा । तत्राष्टौ सर्वाः प्रकृतयः, ता एवायुर्वर्जाः सप्त । ज्ञानावरण-दर्शनावरण-नाम-गोत्रा-ऽन्तरायेषु वध्यमानेषु अष्टौ सप्त षड् वा । तत्राष्टौ सप्त च प्रागिव । मोहनीया-ऽऽयुर्वर्जाः षट् , ताश्च सूक्ष्मसम्पराये प्राप्यन्ते । वेदनीये तु बध्यमानेऽष्टौ
१ सं० णुसु प्र०॥२ स०१ त० °त्वारि बन्धस्था ॥ ३ सं० मुद्रि० बन्धोऽजघ° ॥ ४ मुद्रि० क्तस्वरूपा एवमग्रेऽपि ॥ ५ सं० १ त० सप्तानां प्रकृ ॥ ६ सं०१त०म० कस्योप ॥