________________
१-२ ]
चन्द्रमित्कृतं समतिकाप्रकरणम् ।
पुनरप्यमु ं विशेषयति — 'निस्यन्दं दृष्टिवादस्य' दृष्टिवादमहार्णवस्य बिन्दुभूतं - निस्यन्दकल्पम् | दृष्टिवादो हि परिकर्म १ सूत्र २ प्रथमानुयोग ३ पूर्वगत ४ चूलिका ५ रूपपञ्चस्थानः । तत्र पूर्वेषु मध्ये द्वितीये अग्रायणीयाभिधाने चतुर्दशवस्तुसमन्विते पूर्वे यत् पञ्चमं वस्तु विंशतिप्राभृतपरिमाणं तस्य चतुर्थं यत् कर्मप्रकृतिनामकं चतुर्विंशत्यनुयोगद्वारमयं प्राभूतं तस्यादिमे त्रयो बन्धादयः सूत्रकृता लेशतो वक्ष्यन्ते । ततोऽयं बन्ध-उदय-सत्प्रकृतिस्थानानां संक्षेपो दृष्टिवादस्य निस्यन्दरूपः । अनेन च प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या । दृष्टिवादो हि भगवता परमार्हन्त्यमहिम्ना विराजमानेन वोरवर्धमानस्वामिना साक्षादर्थतोऽभिहितः, सूत्रतस्तु सुधर्मस्वामिना, तन्निस्यन्दरूपं चेदं प्रकरणमतः सर्वविन्मूलमिति ।। १ ।।
१६३
?
ननु बन्ध-उदय-सत्प्रकृतिस्थानानां संक्षेपोऽभिधातव्यः किं प्रत्येकम् ? आहोस्वित् संवेधरूपः ? उच्यते - संवेधरूपः तथा चामुमेव संवेधरूपं संक्षेपं विवक्षुः शिष्यान् प्रश्नं कारयति - कह तो वेइ, कह कर वा पयसिंतठाणाणि । बं/ घं मृलुत्तरपाई, भंगविगप्पा उ बोधव्वा ॥ २ ॥
1
कतिशब्दः परिमाणपृच्छायाम् । कति कर्मप्रकृतीर्थघ्नन् कति कर्मप्रकृतीर्वेदयते ? कति वा तथातथावघ्नतो वेदयमानस्य च 'प्रकृतिसत्कर्मस्थानानि' प्रकृतिसत्तास्थानानि ? | एवं शिष्यैः प्रश्ने कृते सति आचार्योऽस्मिन् विषये भङ्गजालम नेकप्रकारं वचोमात्रेण यथावत् प्रतिपादयितुमशक्यं जानानः सामान्येनैव प्रत्युत्तरमाह - "मूल" इत्यादि । मूलप्रकृतिषु --ज्ञानावरण-दर्शनावरणादिरूपासु उत्तरप्रकृतिषु च मतिज्ञानावरण - तज्ञानावरणादिरूपासु, उभयीषु च वक्ष्यमाणस्वरूपासु प्रत्येकं बन्ध उदय- सत्ता-संवेधमधिकृत्य चिन्त्यमानासु बहवो भङ्गाः सम्भवन्ति, ते चास्मिन् प्रकरणे यथावद् वैविक्त्येन प्रतिपाद्यमानाः सम्यग् बोद्धव्याः । तत्र मूलप्रकृतयोऽष्टौ तद्यथा-- ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयम आयुः नाम गोत्रम् अन्तरायं च । तत्र ज्ञायते-परिच्छिद्यते वस्तु अनेनेति ज्ञानं - सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, आव्रियतेऽनेनेत्यावरणं-- मिथ्यात्वादिसचिव जीवव्यापाराहतकर्म वर्गणान्तः पाती विशिष्ट - पुद्गलसमूहः, ज्ञानस्यावरणं ज्ञानावरणम् १ | तथा दृश्यतेऽनेनेति दर्शनं - सामान्य- विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, तस्यावरणं दर्शनावरणम् २ | तथा वेद्यते - आह्लादादिरूपेणानुभूयते यत् तद् वेदनीयं, यद्यपि च सर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवद् वेदनीयशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेदनीयमित्युच्यते न शेषम् ३ | तथा मोहयतिसदसद्विवेक विकलं करोत्यात्मानमिति मोहनीयम् कृत् " बहुलम् " ( सिद्धहे० ५ १-२ ) इति वचनात् कर्तर्यनीयः ४ । तथा एति - गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति - आगच्छति प्रति
,