________________
१६३
मलयगिरिमहर्षिविनिर्मित विवृत्युपेत
[ गाथा
सिद्धानि - प्रसिद्धानि यानि जीवस्थान- गुणस्थानरूपाणिपदानि तानि सिद्धपदानि तेभ्यः तान्याश्रित्य तेषु विषय इत्यर्थः । अत्र स्थाने " गम्ययपः कर्माधारे " ( सिद्धहे० २-२-७४ ) इति सूत्रेण पञ्चमी, यथा प्रासादात् प्रेक्षते इत्यत्र । तत्र बन्धो नाम - कर्म परमार नामात्मप्रदेशैः सह वह्नययःपिण्डवदन्योऽन्यानुगमः ' १ । कर्मपरमाणू नामेव विपाकप्राप्तानामनुभवनमुदयः २ । तथा बन्धसमयात् सङ्क्रमेणात्मलाभसमयाद्वा आरभ्य यावत् ते कर्मपरमाणवो नान्यत्र सङ्क्रम्यन्ते यावद् वा न क्षयमुपगच्छन्ति तावद् तेषां स्वस्वरूपेण यः सद्भावः सा सत्ता ३ । सदिति सूत्रे निर्देशो भावप्रधानः, तेन सदिति सत्ता व्याख्याता । प्रकृतीनां स्थानानि समुदायाः प्रकृतिस्थानानि द्वित्र्यादिप्रकृतिसमुदाया इत्यर्थः, स्थानशब्दोऽत्र समुदायवाची । बन्ध-उदय-सत्तासु प्रकृतिस्थानानि बन्ध-उदय सत्ताप्रकृतिस्थानानि तेषां संक्षेपं वक्ष्ये । तं च वक्ष्यमाणं शृणु । 'शृणु' इति क्रियापदं च श्रोतॄणां कथञ्चिदना भोगवशतः प्रमादसम्भवेऽप्याचार्येण नोद्विजितव्यम्, किन्तु सुमधुरवचोभिः शिर्क्षानिबन्धनैः श्रोतॄणां मनांसि प्रह्लाद्य यथार्हमागमार्थो निवेदनीय ख्यापनार्थम् । तदुक्तम्—
3 अणुवत्तणाएँ सेहा, पायं पावेंति जोग्गयं परमं । रयणं पि गुणुक्करिसं, उवे सोहम्मणगुणं ॥ एत्थ य पमायखलिया, पुव्वन्भासेण कस्स व न होंति ? |
जो तेsas सम्मं, गुरुत्तणं तस्स सफलं ति ||
को नाम सारहीणं, स होज जो भहवाइणो दमए ।
बुट्ठे वि य जो आसे, दमे तं सारहिं बेंति ।। (पञ्चव० गा० १७-१९)
鲨
संक्षेपस्यैव विशेषणार्थमाह - 'महार्थं ' महान् - प्रभूतोऽर्थः - अभिधेयं यस्य स महार्थः ।
ननु संक्षेपो विस्तरार्थसङ्ग्रहरूपः, ततः स महार्थ एव भवतीति किमर्थं महार्थमिति विशेषणम् ? तदयुक्तम्, संक्षेपस्यान्यथाऽपि सम्भवात् । तथाहि-- आख्याना ऽऽलापक-सङ्ग्रहण्यः संक्षेपरूपा दृश्यन्ते न च महार्थाः, तत्तात्पर्यार्थस्याल्पीयस्त्वात्, ततस्तत्कल्पममु संक्षेपं मा ज्ञासीद् विनेयजन इत्यमहार्थत्वाऽऽशङ्कापनोदार्थं महार्थमिति विशेषणम् ।
१ सं० १ ० ०मः १ । तथा कर्म० ॥ २ सं० १ सं० त० म० छा० ०षां स्त्ररूपेण ॥ ३ अनुवर्तनया शैक्षाः प्रायः प्राप्नुवन्ति योग्यतां परमाम् । रत्नमपि गुणोत्कर्षमुपैति शोधकगुणेन ॥ अत्र च प्रमादस्वलितानि पूर्वाभ्यासेन कस्य वा न भवन्ति ? | यस्तानि अपनयति सम्यग् गुरुत्वं तस्य सफलमिति ॥ को नाम सारथीनां स भवेद् यो भद्रवाजिनो दमयेत् ? । दुष्टानपि च योऽश्वान् दमयति
रविते ॥