________________
॥ अहम् ।। नमः कर्मतत्त्ववेदिभ्यः पूर्वसूरिभ्यः । महर्षिश्रीमचन्द्रर्षिमहत्तरविरचितं सप्ततिकाप्रकरणम् । पूज्यश्रीमन्मलयगिरिमहर्षिविनिर्मितविवृतिसमलङ्कृतम् ।
ॐ सर्वविदे नमः। अशेषकर्माशतमःसमूहक्षयाय भास्वानिव दीप्ततेजाः । प्रकाशिताशेषजगत्स्वरूपः, प्रभुः स जीयाजिनवर्धमानः ॥ जीयाजिनेशसिद्धान्तो, मुक्तिकामप्रदीपनः । कुश्रुत्यातपतप्तानां, सान्द्रो मलयमारुतः ।। चूर्णयो नावगम्यन्ते, सप्ततेर्मन्दबुद्धिभिः । ततः स्पष्टावबोधार्थ, तस्याष्टीका करोम्यहम् ।। अहर्निशं चूर्णिविचारयोगाद् , मन्दोऽपि शक्तो विवृतिं विधातुम् ।
निरन्तरं कुम्भनिघर्षयोगाद् , ग्रावाऽपि कूपे समुपैति घर्षम् ।। इह यत् शास्त्र प्रकरणं वा सर्वविन्मूलं तत् प्रेक्षावतामुपादेयं भवति, नान्यत् । ततः सप्ततिकाख्यं प्रकरण मारभमाण आचार्यः प्रेक्षावतां प्रकरणविपये उपादेयबुद्धिपरिग्रहार्थं प्रकरणस्य सर्वविन्मूलताम् , तथा सर्वविन्मूलत्वेऽपि न प्रेक्षापूर्वकारिणोऽभिधेयादिपरिज्ञानमन्तरेण यथाकथश्चित्' प्रवर्तन्ते प्रेक्षावत्ताक्षतिप्रसङ्गात् , ततस्तेषां प्रवृत्त्यर्थमभिधेयादिकं च प्रतिपिपादयिषुरिदमाह
सिद्धपए हिँ महत्थं, बंधोदयसंतपयडिठाणाणं ।
'वोच्छं सुण संखेवं, नीसंदं दिहिवायस्स ॥ १ ॥ सिद्धं-प्रतिष्ठितं चालयितुमशक्यमित्येकोऽर्थः । ततः सिद्धानि पदानि येषु ग्रन्थेषु ते सिद्भपदाः-कर्मप्रकृति-प्राभतादयः, न हि तेषां पदानि कैश्चिदपि चालयितुं शक्यन्ते, तेषां सर्वज्ञोक्तार्थानुमारित्वात् तेभ्यो बन्ध-उदय-सत्प्रकृतिस्थानानां संक्षेपं वक्ष्ये । अथवा स्व समये
१०सं०१ त० ०त् तत्र प्रव० ॥ २ सं० १ त० म० छा० वुच्छं ।। ३ सं० १ त. निस्संद ।।
21