________________
१५८
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदं क्षपयति, ततः पुरुषवेदम् , ततो हास्यादिषट्कम् ,ततः स्त्रीवेदम् । अथ नपुसकः प्रारम्भकः ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदं क्षपयति, ततः पुरुषवेदम् , ततो हास्यादिषट्कम् , ततो नपुसकवेदम् । ततः संज्वलनान् क्रोध-मान-माया-लोभलक्षणान प्रत्येकमन्तमुहूर्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति । श्रोणिपरिसमाप्तिकालोऽप्यन्तमुहूर्तमेव, अन्तम हूर्तानामसङ्खये यभेदत्वात् । लोभचरमखण्डं तु सङ्खये यानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । चरमखण्डं पुनरसङ्खये यानि खण्डानि करोति, तान्यपि समये समय एकैकं क्षपयति । स्थापना चेयम्
संज्वलनलोभ संज्वलनमाया संज्वलनमान संग्वलनकोध पुरुषवेद
स्त्रीवेद
नपुसकवेद |
एकद्रियादिषोडशप्रकृति | अप्र-क्रोधाप्र० क्रोध अप्र.मान प्र० मान अप्र.मायाप्र. माया अप्र-लोम प्रलोभ
देव-नारक-तिर्यगायू षि३ सम्यक्त्वमोह०
मिश्रमोहक
मिथ्यात्वमोह. | अनं० क्रोध अनं० मान अनं०माया अनं० लोभ इह च क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत ऊर्ध्वमनिवृत्तिवादरो यावच्चरमलोभखण्डमिति, तत ऊर्ध्वमसङ्खये यखण्डानि क्षपयन् सूक्ष्मसम्परायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्व यथाख्यातचारित्री, स च महाप्रतरणपरिश्रान्तवद् मोहसागरं ती. विश्राम्यति । सतश्छद्मस्थवीतरागत्वद्विचरमसमये "दो निद" ति 'द्वे निद्रे' निद्रा-प्रचलालक्षणे क्षपयति, ततश्चरमसमये