________________
१५६
१००
शतकनामा पञ्चमः कर्मग्रन्थः। "विग्धवरणक्खए" त्ति विघ्नानि-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणानि “वरण" त्ति प्राकृतत्वादाकारलोपे आवरणानि--मतिज्ञानावरण-श्र तज्ञानावरणा-ऽवधिज्ञानावरण मनःपर्यायज्ञानावरण-केवलज्ञानावरण-चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरणा--ऽवधिदर्शनावरण--केवलदर्शनावरणलक्षणानि नव, ततो विघ्नानि चावरणानि च विघ्नावरणानि तेषां क्षये-निमू लोच्छेदेन 'ज्ञानी' केवलज्ञानी भवति । यदाहुः श्रीमदाराध्यपादाः--
'चरमे नाणावरणं, पंचविहं दंसणं चउवियप्पं ।
पंचविहमंतरायं, खवइत्ता केवली होइ ।। (आव० नि० गा० १२६) इदमुक्तं भवति-अविरतादीनामन्यतरः प्रथमसंहननः सुविशुद्धपरिणामः क्षपकश्रेणिमारूढो गुणस्थानक्रमेणानन्तानुबन्ध्यादीनुक्तप्रकारेण क्षपयन् यावत् क्षीणमोहचरमसमये विघ्नपञ्चक-ज्ञानावरणपश्चक-दर्शनावरणचतुष्कं क्षपयित्वा सर्वसङ्ख्यया तु ज्ञानावरणपञ्चक-दर्शनावरणनवक-मोहनीयाष्टाविंशति-आयुस्त्रिक--नामप्रकृतित्रयोदशका-ऽन्तरायपञ्चकलक्षणास्त्रिषष्टिप्रकृती: क्षपयित्वा केवलज्ञानी भवति । स च भगवान् भवस्थकेवली लोकमलोकं सर्व सर्वात्मनाऽविकलविमलकेवलेन पश्यति, न हि तदस्ति भूतं भवद् भविष्यद्वा यद् भगवान पश्यति । यदाहुः श्रीमदाराध्यपादाः
संभिन्नं पासंतो, लोगमलोगं च सव्वओ सव्यं ।
तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ।। (आव० नि० गा० १२७) इत्थंभूतश्च सयोगिकेवली जघन्यतोन्तमुहूर्तमुत्कर्षतो देशोनां पूर्वकोटी विहृत्य अयोगिकेवलिगुणस्थानकमारुह्य तद्विचरमसमये द्वासप्ततिप्रकृतीः तच्चरमसमये त्रयोदशप्रकृतीश्च क्षपयित्वा शिवमचलमरुजमक्षयमव्याबाधममन्दानन्दरत्नसारमासादयतीति, उक्ता क्षपकोणिः। तद्भ'णने च व्याख्याता "नमिय जिणं धुवबंधोदयसंता" इत्यादिद्वारगाथा । सम्प्रति शतगाथाप्रमाणत्वेन यथार्थनामकं शतकशास्त्रं समर्थयबाह--"देविंदमूरिलिहियं, सयगमिणं आयसरण?" त्ति देवेन्द्रसूरिणा-करालकलिकालपातालतलावमजद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगचन्द्र-- सूरिचरणसरसीरुहचश्चरीककल्पेन लिखितम्-अक्षरविन्यासीकृतम् , कर्मप्रकृति-पञ्चसङ्ग्रह-बहच्छतकादिशास्त्रेभ्य इति शेषः । किम् ? इत्याह-'शतक' शतगाथाप्रमाणम् ‘इदम्' अधुनैव व्याख्यातस्वरूपम् । किमर्थम् १ इत्याह-'आत्मस्मरणार्थम्' आत्मस्मृतिनिमित्तमिति ।।१००॥
॥ इति श्रीमद्देवेन्द्रसूरिविरचिता स्वोपज्ञशतकटीका ॥
१ चरमे ज्ञानावरणं पञ्चविधं दर्शनं चतुर्विकल्पम् । पञ्चविधमन्तरायं क्षपयित्वा केवली भवति।। २ संपूर्ण पश्यन् लोकमलोकं च सर्वतः सर्वम् । तन्नास्ति यन्न पश्यति भूतं भवद्भविष्यद्वा ।।