________________
22-800]
यदि वा-
शतकनामा पञ्चमः कर्म ग्रन्थः ।
१५७
जह सुद्धजलाणुगयं, दुद्धं सुद्धं जलक्खए सुतरं ।
सम्मत्तसुद्ध पुग्गल परिक्खए दंसणं एवं || (विशेषा० भा० गा० १३१८-२१) तमि यतय उत्थे, भवम्मि सिज्यंति खइयसम्म | सुरनरयजुगलिस गई, इमं तु जिणकालियनराणं ॥
तदेवं सप्तकक्षयोऽविरतसम्यग्दृष्टौ देशविरते प्रमत्तसंयतेऽप्रमत्तसंयते वा प्राप्यते । यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते । उक्तं च भाष्यकृता
'इयरो अणुवरओ च्चिय, सयलं सेटिं समाणेइ । (विशेषा० भा० गा० १३२५ ) तत्र यः सकलश्रेणिं करोति तस्य क्षपकस्य निजनिजभवे सुर-नारक- तिर्यगायुस्त्रयं व्यवच्छिन्नमेव । उक्तं च---
सुरनरयतिरियआउं, निययभवे सव्वजीवाणं ॥ इति ।
एतदेवाह - “तिआउ” त्ति देवायुः -नारकायुः- तिर्यगायुर्लक्षणमायुस्त्रयम्, स च क्षपकः स्वल्पसम्यग्दर्शनावशेष एव "अड" त्ति अष्टप्रकृती :- अप्रत्याख्यानावरण-प्रत्याख्यानावरणकषायरूपा युगपत् क्षपयितुमारभते । एतासु चार्ध पितास्वेवान्तराले त्रयोदश नामप्रकृतीस्तिस्रो दर्शनावरणप्रकृतीरुभयोः षोडश प्रकृतीः क्षपयति । तथाहि - - " इगविगल" इत्यादि । " इग" त्ति एकेन्द्रियजातिः, त्रिकशब्दस्य प्रत्येकं सम्बन्धात् विकलत्रिकम् - द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियजातिलक्षणं स्त्यानर्द्धित्रिकं - निद्रानिद्रा - प्रचलाप्रचला - स्त्यानर्द्धिरूपं "जोयं" त्ति उद्योतनाम, द्विकशब्दस्य प्रत्येकं सम्बन्धात् तिर्यद्विकं तिर्यग्गति--तिर्यगानुपूर्वीरूपं नरकद्विकं नरकगति-नरकानुपूर्वीरूपं स्थावरद्विकं - - स्थावर - सूक्ष्माख्यं “साहार " ति साधारणनाम आतपनामेति । ततो दष्ट काय यावदवशिष्टं तत् क्षपयति, सर्वमिदमन्तमुहूर्तमात्रेण क्षपयति, एष सूत्रादेशः । अन्ये पुनराहुः - षोडश कर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात् षोडश कर्माणीति, ततो "नपु" त्ति नपुंसकवेदं क्षपयति, ततः स्त्रीवेदमिति ।। ९९ ।
छग पुं संजलणा दो, निद्दा विग्धवरणक्खए नाणी I देविंद सूरिलिहियं, सयग्रमिणं आयसरणट्ठा ॥ १०० ॥
ततः ‘षट्कं' हास्य-रति-अरति-शोक-भय- जुगुप्सालक्षणम्, ततः पु'वेदं खण्डत्रयं करोति, तत्र खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः ।
१ इतरोऽनुपरत एव सकलां श्रेणि समापयति । २ सुरनिरयतिर्यगायूंषि निजकभवे सर्वजीवानाम् ॥